Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(१५) प्रस्तावौचित्यम्
(१६) तत्त्वनिष्ठता
(१७) अप्रकीर्णप्रसृतत्वम्
(१८) अस्वश्लाघान्यनिन्दत्वम्
(१९) आभिजात्यम्
(२०) अतिस्निग्धमधुरत्वम्
(२१) प्रशस्यत्वम्
(२२) अमर्मवेधता
(२३) औदार्यम्
(२४) धर्मार्थप्रतिबद्धता
(२५) कारकाद्यविपर्यासत्वम्
Jain Education International
देश-काल-पुरुषा-ऽवस्था - परिणति - शुद्ध्यादीन् भावान् प्रसमीक्ष्य भगवताऽवसरोचितमेव वचनं कथ्यते न पुनरेकदण्डन्यायेन । प्रभुवचनं विवक्षितस्य वस्तुनः स्वतत्त्वमेवा - ऽनुसरति ।
सुसंश्लिष्टैः पदैर्वाक्यैश्च सुसम्बद्धा, विषयान्तररहिता, अतिप्रस्ताररहिता च प्रभोर्देशना भवति न पुनरितस्ततो मेलितैर्वाक्यैर्विप्रकीर्णा । प्रभोर्देशनायां कदाऽपि स्वात्मश्लाघा न भवति, न चाऽपि परेषां केषामपि निन्दा भवति । स्वस्योच्चकुलीनत्वं प्रतिपाद्यविषयस्य च श्रेष्ठत्वं प्रदर्शयत् प्रभोर्वचो भवति ।
घृत-मधु - द्राक्षादीनां पानमिव भगवद्वचनमपि नितरां स्नेहसमाकुलं माधुर्यप्रकर्षवच्च भवति, श्रोतॄणां चाऽतीव सुखद् भवति । उत्तमैर्गुणैर्युक्तत्वात् पण्डितजनैरप्युपगतश्लाघं तद् भवति ।
परेषां मर्मप्रकाशित्वेन मर्मवेधित्वेन चाऽत्यन्त - विरहितमेव प्रभोर्वचनं भवति । तुच्छतालेशेनाऽप्यसम्पृक्तं भगवद्वचनं
सर्वदौदार्ययुक्तमेव भवति ।
धार्मिकेनाऽऽर्थिकेन च विषयेण सुप्रतिबद्धमेव तद् भवति न पुनस्तद्विरहितम् । कारक-काल-वचन-लिङ्ग- जात्यादीनां
५८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130