Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ प्रकाशयति । (१२) पवनो वायुः । स हि सर्वत्र प्रतिबन्धरहितो निराबाधतया वाति । एवं श्रमणोऽपि कुत्रचिदप्यासक्तिमकुर्वन् अप्रतिबद्धतया विहरति । इत्थमुरगादिसमो यतो भवति ततः स श्रमण उच्यते । अन्यत्राऽप्युक्तम् - विस-तिणिस-वाय-वंजुल-कणियारुप्पलसमेण समणेणं । भमरुंदुरु-भड-कुक्कुड-अद्दागसमेण होयव्वं ॥१॥ अस्याऽर्थः (१) विषं-गरलं, विषे हि सर्वेषां रसानामन्तर्भावात् न कस्यचिदपि रसस्याऽनुभवस्तस्मिन् भवति । एवं श्रमणेनाऽपि कस्यचिदपि रसस्याऽननुभावकतया सर्वरसानुपातितया सामरस्यैकरुचिना भवितव्यम् । (२) तिनिशोऽतिमुक्तकः ('नेतर' इति भाषायां वेत्रलता वा) स हि अतीवनम्रः स्थितिस्थापकश्च भवति । एवं श्रमणेनाऽपि अभिमानत्यागतो विनयननेण भवितव्यम् । (३) वातः पवनः । अत्र पूर्ववत् । (४) व लो वेतसः । एवं हि श्रूयते - किल वेतसं समवाप्य सर्पा निर्विषीभवन्ति । एवं श्रमणेनाऽपि स्वपार्श्वमागतानां जीवानां विषस्वरूपाः क्रोध-मद-मत्सरादयो दोषा अपनेतव्याः । (५) कर्णिकारपुष्पम् ('कणेर' इति भाषायाम्) तद्धि प्रकटं निर्गन्धं च भवति । एवं श्रमणोऽपि प्रकटचरितो रागादिगन्धापेक्षया य निर्गन्धो भवेत् । (६) उत्पलं कुमुदम् । तद्धि प्रकृतिशुक्लं सुगन्धि च वर्तते । एवं श्रमणोऽपि स्वभावनिर्मलो गुणामोदमाश्रित्य सुगन्धी भवति । (७) भ्रमरसम इति पूर्ववत् । (८) उन्दुरुर्मूषकः । स हि यथानुरूपं स्थलं समयं च परिप्रेक्ष्यैव संचरति, सङ्ग्रहशीलश्च ४८ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130