Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समस्तसन्देहनाशिनीं सकलभाषासंवादिनी च वाणी धर्मदेशनास्वरूपेण प्रयुञ्जन्ति । यदाहुः कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः
जगन्महामोहनिद्रा-प्रत्यूषसमयोपमम् ।
मुनिसुव्रतनाथस्य देशनावचनं स्तुमः ॥ अनया देशनया ते एकान्तहितकरं मोक्षप्रापणोपायं प्ररूपयन्ति यं श्रुत्वा ज्ञात्वा अवधार्य श्रद्धाय आदृत्य आचर्य संसाध्य च बहवो जीवाः निःश्रेयसभाजिनो भवन्ति । एतदेव हि तेषामन्येभ्योऽतिशायित्वं येन ते एवमुपकर्तुक्षमाः । उक्तं च प्रवचनसारोद्धारवृत्तौ___"न ह्येवंविधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यते कर्तुमिति" । (प्रवचनसारोद्धारे ८८३ तमगाथाया वृत्तिः ।)
अथो भगवन्तस्ते निजदेशनामिमां यद्यपि तद्देशकालस्थित्यनुसारेण अर्धमागधीभाषायां ददते तथाऽपि तां वाणी भगवतां पुण्यातिशयेन योजनप्रमाणे समवसरणे स्थिताः सर्वेऽपि यक्षासुरचन्द्रेन्द्रादयो देवाः तेषां देव्यः, किरातशबरार्यप्रमुखा मनुष्याः, सिंह-हरिण-सर्पनकुलाश्व-गजादयाश्च तिर्यञ्चो निज-निजभाषायां ससुखमवबुध्यन्ते । कथितमपि च -
देवा दैवीं नरा नारी शबराश्चाऽपि शाबरी ।
तिर्यञ्चोऽपि हि तैरश्ची मेनिरे भगवगिरम् ॥ अयं हि महानतिशयः प्राकृतैर्जनैश्च सर्वथा सुदुरापस्तथाऽपि नाऽयं भवति अश्रद्धाया विषयः आश्चर्यस्य वाऽपि कारणं, यतोऽधुनातनेऽपि यन्त्रयुगे वैश्विकेषु सम्मेलनेषु आन्तरराष्ट्रीयासु च धार्मिक-राजकीय-साहित्यिकसभासु विविधभाषास्वपि गदितं वक्तव्यं काव्यं सूचनं वा नानादेशेभ्य आगताः तथा च नानाभाषाभाषिणोऽपि सभासदो इण्टरप्रिटर् (INTERPRETER)-प्रमुखयन्त्रोपयोगेन निजनिजभाषास्वेव सम्यक्तया प्रतिपद्यन्तेऽवबुध्यन्ते
तथा भगवन्तस्ते देशनामिमां परमसत्यतया परममनोज्ञतया परमकल्याणकारितया च भाषन्ते यां श्रुत्वा बहवो जीवा निजयोग्यतानुसारं प्रतिबोधं सम्प्राप्याऽपवर्गसंसाधनाय प्रवरीवृत्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130