Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ एषणीयम् बेभीयते प्रतिपनीपद्यन्ते प्रतिच्छन्दायितुम् अटाट्यते प्रणंनमितिः निर्दोषं, येषां उत्पादने-ग्रहणे च स्वनिमित्तं कस्याऽपि जीवस्य हिंसा न भवेत् तत् । भृशं बिभेति । पुनः पुनः प्रतिपद्यन्ते। प्रतिच्छन्दः प्रतिबिम्बं, तस्येवाऽऽचरितुम् । कुटिलं अटति। पुनः पुनः प्रणतिः। एकादशगणधराणां नवैव गणा अभवन् । प्रथमानां सप्तगणधराणां भिन्ना भिन्ना वाचना अभवन् । अतः तेभ्यः सप्तगणाः प्रादुर्भूताः । अष्टमो अकम्पितो नवमश्चाचलभ्राता, एवं एतयोः द्वयोः गणधरयोः वाचना समानतया एको गणः समभवत् । तथा च दशमो मेतार्यः एकादशः प्रभासः एवं एतयोः द्वयोः गणधरयोः एकैव वाचनाभवत्, अतः एको गनः समभवन् । एवं एकादशानां गणधराणां नवगणाः अभवन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130