Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आगादः
चिन्तनधारा
मुनिरत्नकीर्तिविजयः एतद्वर्षं भगवतो महावीरस्य स्मृतेः पुण्यावसरस्वरूपं वर्षमस्ति । तस्य भगवतः षड्विशतितमजन्मशतीवर्षमेतद् वर्तते ।
सामान्यतस्तु वर्तमानाया विश्वस्य स्थितेः सूक्ष्म निरीक्षणं यदा यदा क्रियते तदा तदा तेन भगवता प्ररूपिताः सिद्धान्ताः, तत्प्ररूपणे च तस्य पारगामिनी दृष्टिः प्रतिक्षणं स्मृतिगोचरा भवत्येव किन्तु, अवसरं प्राप्य विशेषेण तत् स्मृतिमुत्तेजयति । यद्यपि वर्तमानायाः स्थितेः दुर्बलत्वं न्यूनत्वं वा सम्मुखीकृत्य पुरस्कृत्य भगवतो महावीरस्य प्राबल्यं सर्वोपरित्वं वा ख्यापयितुं नास्त्यत्र कोऽप्याशयः । 'अन्यस्य कस्याऽपि दौर्बल्यमपरस्य प्राबल्ये मान' मिति भौतिकजगति सत्यं सदपि आध्यात्मिकजगति तस्य मूल्यं किञ्चिदपि नास्त्येव । आध्यात्मिकक्षेत्रे, एकस्य पतनेनाऽन्यस्य उन्नतिर्न कदापि मीयते गण्यते वा । यस्य कस्याऽपि उन्नतिः तस्य स्वस्याऽधीनत्वेनैव प्रवर्तते । अन्येषां ग्रह-नक्षत्र- तारकादीनां अल्पतेजस्कत्वं न कदापि सूर्यस्य प्रखरतेजस्वितायां कारणं भवितुमर्हति । सूर्यस्तु स्वयमेव तेजस्वी तेजःपुञ्जो वा वर्तते । सन्मार्गोऽपि नाऽसन्मार्गस्याऽपेक्षया सत्यं किन्तु स्वयमेव स तत्स्वरूपः । एवं भवति कदाचित् यत् असन्मार्गप्रवृत्यनन्तरं सत्यस्य - सन्मार्गस्य भानं जायेत ।
एवमेव भगवान् महावीरः तस्य सिद्धान्ताश्च स्वयमेव महान्तः त्रिकालाबाधितसत्यस्वरूपाश्च सन्ति । केवलं पूर्वग्रहशून्या दृष्टिरेव तत्सत्यं ग्रहीतुं समर्था भवति । हेल्वेटीयस् नाम्ना लेखकेन लिखितमस्ति यद् – 'सत्यं त्वेकमुल्मुकमस्ति, यत् मिहिकामविकीर्याऽपि तन्मध्यादेव प्रकाशते' इति । अत्र तु भगवतो महावीरस्य साधनातः पुरुषार्थाच्च प्राप्यमाणं जीवनस्य सत्यं निर्देष्टुं प्रयत्नमात्रं कृतमस्ति ।
सङ्घर्ष इति जीवनतत्त्वस्याऽपरं नाम पर्यायो वाऽस्ति । सुखायाऽविरतं सङ्घर्ष इति मानवजीवनस्य संक्षिप्तोऽपि संपूर्ण इतिहासोऽस्ति ।
३४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130