Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
चिरन्तनो मार्गो मनुष्यात् महावीरो भवितुं किल ।
प्रवृत्तिमात्रं पुरुषार्थोऽस्ति किन्तु सद्दिशि कृतः पुरुषार्थस्तु साधानाऽस्ति यो लक्ष्य प्रापयति । यस्तु दिशाशून्यः स सर्वोऽपि शेषः पुरुषार्थः केवलं शारीरिकः श्रम एव कथ्यते । भगवतो महावीरस्य साधनाया ध्वनिरप्येष एव यत् - भवान् भवतः पुरुषार्थस्य दिशं परावृत्य तं साधनास्वरूपं यच्छतु । पश्चाच्च यदर्थं परिश्रमं करोति तत्सुखं सम्मुखमेवोपस्थितं भविष्यति । एतदेव चैकमन्तिमं च सत्यम् ।
महावीरस्य साधना नास्त्यपरं किञ्चित् किन्तु वास्तविकस्य सुखस्य सन्मार्गरूपा एव सा। मार्गो न कदापि साम्प्रदायिको भवति स तु सर्वजनीन एव भवति । न विद्यते तत्र कस्याऽपि स्वामिभावः । कश्चित् आदर्शस्तु भवेदपि, योऽनुसरणीयो भवेत् । भगवान् महावीरोऽपि आदर्श एवास्ति सर्वेषाम् । केवलं तत्र काऽस्माकं दृष्टिः किं वा मूल्याङ्कनं इत्यत्राऽस्ति अस्मद्वद्धेः परीक्षणम् । ___ उभावपि विकल्पौ - प्रेयोमार्गेण प्रवर्तमानं जगत्, श्रेयोमार्ग अनुसरन् च भगवान् महावीरः - अस्मत्समक्षं स्पष्टावेव । कुत्राऽस्त्यस्माकं रुचिः? एकं तटं परिहत्यैव अन्यत्तरं प्राप्तुं शक्यम्, तद्वत् प्रेयोमार्गस्य त्यागेनैव श्रेयोमार्गेण गन्तुं शक्यम् ।
भारतीयसंस्कृतिस्तु श्रेयोमार्गस्य संस्कृतिः, यतस्तस्यां केन्द्रवर्ती आत्माऽस्ति लक्ष्यंच आत्मोत्थानम् । प्रेयोमार्गस्य संस्कृतिस्तु पाश्चात्यसंस्कृतिः, तत्र केन्द्रवर्ति शरीरमस्ति साधनानि च सन्ति, भौतिकश्च विकास एव तस्या लक्ष्यम् । अनयोद्वयोर्मध्ये यत् तथ्यरूपं सत्यं वा तदेवाऽऽचरणीयम् । केवलं संस्कृतेः कथनमात्रेण न किमपि कार्यं सरति । एकस्य आङ्ग्ललेखकस्य वचनमप्यस्ति यद् - "यत् सत्यं तदर्थं यदि मनुष्यस्य अभिलाषः स्यात् तर्हि तत्तु पूर्वमेव प्राप्तं स्यात्' इति । ___भगवता महावीरेण स्वकीयया साधनया सत्यं प्रकाशितमेव । सत्यपक्षपातस्य तस्य भगवतः चिरंजीविनः सन्देशस्य अनुसरणं यदि चेत् वयं सङ्कल्पेमहि, तदेव तेषां स्मृतिदिवसस्य श्रेष्ठं तर्पणं भविष्यति । इति शम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130