Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ आस्गादः तीर्थंकराणामतिशया: -मुनिधर्मकीर्तिविजयः। कथ्यन्ते जिनशासने उत्तमजीवाः ‘शलाकापुरुषाः' इति । तत्राऽपि तीर्थकरा: 'उत्तमोत्तमशलाकापुरुषाः' । अस्मिन् काले चतुर्विंशतिः तीर्थकरा जाता इति मन्यन्ते जैनाः । तेषु श्रीमहावीरजिनेश्वरः अन्तिमतीर्थकरोऽस्ति । तस्य भगवतः इदं षड्विंशतशततमं जन्मवर्षं प्रवर्तते । पूर्वभवेष्वपि तीर्थकरजीवः तथाभव्यत्वस्य परिपाकेन नैकविशिष्टगुणैश्च अन्येभ्यो जीवेभ्य उत्तमो भवति । चरमभवापेक्षया पूर्वस्मिन् तृतीये भवे तीर्थकरनामकर्म उपार्जयति भावितीर्थकरात्मा । तत्क्षणादारभ्यैव तीर्थकरनामकर्मणः प्रदेशोदयः तेनाऽनुभूयते । तत्प्रदेशोदयवशादन्येभ्यो जीवात्मभ्यः तस्याऽत्मनः तेजोरूपलावण्यैश्वर्यसौभाग्यगाम्भीर्य धैर्यसर्वप्रियत्वनिर्भयत्वनिर्दोषत्वसरलतानिरभिमानित्वादयो गुणा अधिकत्वेन वैशिष्ट्यं धारयन्ति । पूर्वतृतीयभवापेक्षया अन्तिमभवे तु तीर्थकरात्मन ईशित्वं निरुपमानं भवति । स सुरासुरेन्द्रनृपवृन्दैः पूजनीयः स्तवनीयश्च भवति । तथा त्रैलोक्यस्याऽधिपतित्वमपि धारयति । एवं चरमभवे तीर्थकरात्मा परमैश्वर्यं प्राप्नोति । किञ्च- जैनसिद्धान्तपरिभाषया चरमभवे ईदृशः तीर्थकरजीवः चतुस्त्रिंशदतिशयैरलङकृतो विद्यते । यद्यपि अत्र न केवलं चतुस्त्रिंशदेवाऽतिशयाः, अपि त्वनन्ता अतिशयाः सन्ति; यतः तीर्थकरात्मनः च्यवनादारभ्य निर्वाणपर्यन्तं सर्वाऽपि अवस्थाऽलौकिका भवति । अन्येषां जीवानां काऽप्यवस्था तीर्थकरस्याऽवस्थया सह तुल्यत्वं धारयितुं न समर्था । तत एव तीर्थकरस्य सर्वाऽप्यवस्था ‘अतिशयः' इत्यभिधीयते । तथाऽपि अस्मादृशां बालजीवानां बोधार्थं चतुस्त्रिंशदेवऽतिशयाः शास्त्रेषु वर्णिताः । एवं "तीर्थकरस्य अन्तिमभव एवाऽतिशयः" इति कथने नास्त्यतिशयोक्ति: काऽपि । अतिशयः कः? जगतोऽप्यतिशेरते तीर्थकरा एभिरित्यतिशयाः । Jain Education International ३९ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130