Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
६. भगवतः पादन्यासार्थं त्रिदशाः सुवर्णपङ्कजानि कुर्वते । केवलज्ञाने प्राप्ते सति अंही
भूमि न स्पृशतो भगवतः, ततो विहरन् भगवान् देवनिर्मितचामीकरारविन्दानामुपरि चरणन्यासं कुरुते । भगवतो मधुरदेशनायाः स्थानरूपे समवसरणेऽमरा रजतसुवर्णरत्नमयं प्राकारत्रयं कुर्वन्ति । तत्र वैमानिकदेवाः सर्वोत्कृष्टरत्नमण्डितं प्राकारं निर्मिमते, ज्योतिष्कदेवा
मनोज्ञं सुवर्णमयं वप्रं समारचयन्ति, तत्पश्चाद्भवनपतिदेवा रूप्यमयं प्राकारं कुर्वन्ति । ८. समवसरणे देशनाकाले स्वयं भगवान् पूर्वदिशि सिंहासनस्योपरि विराजते । अन्यस्मिन्
दिक्त्रये व्यन्तरदेवाः प्रभोः शरीरस्य प्रतिकृतीः निर्मिमते । एवं जीवानां कल्याणार्थं विभुः चतुर्मुखीभूय निर्मलां हितकारिणी मधुरां च देशनां ददाति ।। विबुधाः चैत्याभिधानं द्रुममशोकवृक्षं रचयन्ति । एष वृक्षः सर्वदा भगवतः संनिधावेव तिष्ठति । सदैतवृक्षस्योपरि निखिलतूंनां सुगन्धितपुष्पनिकुरम्बा विलसन्ति । भवति
स वृक्षः एकयोजनप्रमाणविस्तृतः । १०. विहरतो भगवतो मार्गे कण्टका अप्यधोमुखा भवन्ति । ११. विहरतः प्रभोः द्वयोरपि पार्श्वयोः पादपपङ्क्तिः नम्रतां धारयति । १२. वियति त्रिदशा उच्चैः विश्वव्यापिनं दुन्दुभिनादं कुर्वन्ति । १३. वायुरपि सुखत्वेनाऽनुकूलो भवति । न वाति विभोः सन्मुखं वायुः; अपि तु पश्चादेव
वाति, ततो वायुः सुखरूपो भवति ।। १४. विहरतो भगवतो खे उड्डीयमाना वनप्रियनीलकण्ठशुकादय उत्तमपक्षिणोऽपि दक्षिणावर्ते
प्रदक्षिणं ददति । १५. यस्मिन् क्षेत्रे प्रभुः विराजते तस्मिन् क्षेत्रे रजोवृन्दं शमयितुं मेघकुमारदेवा
उत्तमतमसुगन्धिद्रव्यान्वितजलानां वृष्टिं कुर्वन्ति । १६. भगवतोऽग्रे सुरा जानुप्रमाणं पञ्चवर्णानां पुष्पाणां वर्षणं कुर्वते । १७. दीक्षाकालादारभ्यैव विभोः केशानां लोम्नां श्मश्रुणः कूर्चस्य च पाणिपादजानां नखानां
न वृद्धिः भवति, किन्तु ते वर्तन्तेऽवस्थितस्वभावत्वेनैव । १८. घाति-अघातिसमस्तकर्मव्यूहानां क्षयेन केवलज्ञानेऽवाप्ते सति जघन्यतोऽपि
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130