Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ प्राप्यते व्याख्यैषाऽभिधानचिन्तामणिकोशस्य स्वोपज्ञटीकायाम्। तीर्थकरं ऋते न समर्थः कोऽपि जीव एतादृशमैश्वर्यं प्राप्तुमित्यतोऽतिशयाः । तीर्थकरस्याऽनुपस्थितौ एकत्रमीलिताः सर्वेऽपि देवा भगवदशोक वृक्षस्य सदृशमन्यदशोकवृक्षं कर्तुं न प्रभवन्ति । किन्तु एकोऽपि देवो भगवतः सांनिध्यप्रभावेण क्षणादेव अपूर्वमशोकवृक्षं विरचयति । एष एव भगवदतिशयः । अत्र चतुस्त्रिंशदतिशयाः त्रिभिः विभागैः वर्ण्यन्ते । तत्र प्रथमाः चत्वारोऽतिशयाः "सहजातिशयाः" कथ्यन्ते । जन्मन आरभ्यैवैते चत्वारोऽतिशया विद्यन्ते, अत: 'सहजाः' इत्यभिधीयन्ते । तद्यथा१. भगवतो रूपमद्भुतमनन्यसदृशं च भवति । तेषां देहोऽपि सुगन्धी निरामयः स्वेदविहीनो मलोज्झितश्च विद्यते। २. भगवतः श्वासोऽपि अब्जगन्धो भवति । ३. भगवतो रुधिरं गोक्षीरप्रवाहवत् श्वेतं तथा पललमपि विशदं दुर्गन्धविहीनं च भवति । ४. भगवत आहारनीहारविधिः चर्मचक्षुषां जीवानां दृग्गोचरो न भवति । अथ कर्मक्षयजा एकादशाऽतिशयाः सन्ति । तीर्थकरात्मा चरमभवे राज्यकुटुम्बवैभवसुखं विहाय संयममार्गमुररीकृत्य अपूर्ववीर्योल्लासद्वारा ज्ञानावरणीयदर्शनावरणीयमोहनीयअन्तरायरूपं घातिकर्मचतुष्कं यदा क्षीणं करोति, तदैव भगवत एते एकादशाऽतिशयाः प्रादुर्भवन्ति । अतः कर्मक्षयजा इति व्याख्यायन्ते । १. एकयोजनमात्रकेऽपि समवसरणे नृतिर्यग्देवानां कोटिकोटिः निराबाधं समाविशति । २. भगवतो देशना सर्वासु दिक्षु एकयोजनपर्यन्तं प्रसरति । ददाति अर्धमागध्यां भाषायां देशनां भगवान् । तथाऽपि सा देशना सर्वासु भाषासु परिणमति, ततो देवा मनुष्याः तिर्यञ्चः स्वस्वभाषायां श्रृण्वन्ति, श्रुत्वा च परमानन्दमाप्नुवन्ति । ३. भगवतो उत्तमाङ्गस्य पृष्ठेऽतिमनोज्ञं दीप्तिमच्च भामण्डलं विद्यते। दिवाकरमण्डलस्य कान्तेरप्यधिका कान्तिः वर्तते तस्य भामण्डलस्य । भामण्डलप्रभावादेव जीवाः सुखेन ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130