Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ पवित्रात्मन्येव तिष्ठति । अहिंसाया उद्गमस्थानमभयमस्ति । भगवत्प्रवचनस्य मूलमन्त्रमप्यभयमस्ति । पवित्रताया मुख्यस्वरूपमहिंसा अस्ति, ततः यत्र भयं तत्र अहिंसाया अभावः । हिंसा एव असमाधिः । अहिंसा एव समाधिरिति ज्ञात्वा अहिंसाधर्म उपदिष्टः । भगवता किमपि कृतं तद् अहिंसार्थं, किमपि न कृतं तदपि अहिंसार्थम् । भगवत आचारः अहिंसकप्ररूपक आसीत्, विचारोऽनेकान्तदृष्टिगोचर आसीत्, भाषा स्याद्वादनिरूपिका आसीत् । भगवता प्ररूपितं "आत्मवत् सर्वभूतान् पश्य" । आत्मरमणता एव अहिंसा अस्ति, जिनागमानुसारेण सैव ध्यानमस्ति । केवलं चित्तवृत्तिनिरोध एव ध्यानं नास्ति, दैहिकवृत्तिनिरोधोऽपि ध्यानमस्ति । भगवच्चित्तविशुद्धिरहिंसायाः स्वरूपे प्रसिद्धा अस्ति । आत्मनिश्चय एव सम्यग्दर्शनमस्ति, आत्मज्ञानमेव सम्यग्ज्ञानमस्ति, आत्मरमणता एव सम्यक्चारित्रमस्ति, तद्भिन्नो न कोऽपि योगो दृश्यते । अहिंसासाधनासंलग्नीभूतः भगवान् ललाप 'यद् मौनमस्ति तत् सत्यमस्ति, यत् सत्यमस्ति तदभाषणमस्ति । भगवता मौनमप्याचरितं अमौनमप्यासेवितम् । छाद्मस्थिकपर्याये अभाषणं सेवितं, केवलज्ञानप्राप्त्यनन्तरं अमौनं सेवितम् । स्वात्मनि परिपूर्णाहिंसाप्रकटनार्थं मौनमाचरितं, प्रतिजनमहिंसाधर्मस्वरूपं ज्ञापयितुममौनमासेवितम् । सार्द्धादशवर्षपर्यन्तं सुरासुरतिर्यगादिकृतसर्वोपसर्गान् समभावेन सहमानः सहमानः ग्रामानुग्रामं विहरन् विहरन् अन्यत्वादिद्वादशभावनास्वरूपं चिंतयन् चिंतयन् स्वशरीरमपि व्युत्सृज्य भगवान् बभाषे 'इदं गात्रं न मम, अहं मूर्तेर्भिन्नः चैतन्यस्वरूपं शुद्धबुद्धनिरञ्जनात्मा अस्मि, शुद्धचैतन्यं मम स्वरूपमस्ति' । यो विग्रहासक्तिः त्यजति स एव चैतन्ये स्थिरीभवति । स्वचैतन्ये स्थिरीभवनप्रक्रिया समता अस्ति । उक्तं च न्यायविशारदमहोपाध्याययशोविजयेन अध्यात्मसारप्रकरणे समताधिकारे दूरे स्वर्गसुखं मुक्ति-पदवी सा दवीयसी । मनः संनिहितं दृष्टं स्पष्टं तु समतासुखम् ।। यत्र सर्वोपाधयः समाप्यन्ते तत्रैव भगवद्पमुदेति । ३३ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130