Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तृतीयः प्रस्तावः ।
महातीर्थेऽत्र प्रासादसमुद्धारच्छलेन सः । मन्त्रीशः स्वपूर्वजानामुद्धारं विदधे किल ॥२४७॥ उद्धारे व्ययितास्तिस्रः कोट्यों लक्षत्रयोनिताः । वाग्भटेनोगटानन्दवशोल्लसितचेतसा ॥ २४८॥ 5 एवं विधाय प्रासादसमुद्धार महोत्सवम् । वाग्भटो धर्मकार्याणि राजकार्याणि चाकरोत् ॥ २४९ ॥ पञ्चमोऽत्र महातीर्थे समुद्धारकरोऽजनि । तीर्थोद्धारकराः पञ्च त एते विश्रुता क्षितौ ॥ २५० ॥ तद्भो ! शत्रुञ्जयगिरौ विद्यमाने न किंचन । 10 आस्ते विनष्टं तीर्थस्योद्धतिकृत् तु विलोक्यते ॥ २५९ ॥ एवं गुरुदितं श्रुत्वा प्राञ्जलिर्देशलोऽवदत् । अयं गिरिर्महातीर्थमिदानीं विदितं मया ॥२५२॥ तदहं कारयिष्यामि प्रभो ! तीर्थसमुद्धृतिम् । यतः समग्रसामग्री साम्प्रतं वर्तते मम ॥ २५३॥ 15 भुजाबलं धनबलं पुत्राणामपि मे बलम् ।
सुहृद्वलं नृपबलं दानशक्तिस्तथोत्तमा ||२५४ ॥ सत्यामेवं सर्वशक्तौ त्वत्प्रसादबलं यदि । भवेत्सहार्य तदहं कारयामि समुद्धृतिम् ॥ २५५ ॥ श्रीसिद्धसूयोऽप्याहुर्धर्मकर्मसु सर्वदा ।
20 गुरुप्रसादः प्रवणः कर्तुं साहाय्यमन्वहम् ॥ २५६ ॥ तत्तीर्थस्य समुद्धारं शीघ्रं देशल ! कारय । विश्वप्रसिद्धं यदिदं धर्मस्य त्वरिता गतिः ॥ २५७ ॥ गुरुप्रसादमासाद्य देसलः साधुसत्तमः ।
गृहे गत्वा समरस्य सूनोराख्यन्निजेप्सितम् || २५८|| 25 सोऽपि श्रुतिपुटाभ्यां तत्पीयूषमिव पैतृकम् । निपीय वचनं सद्यः प्रीति(त) चित्तोऽजनि स्मरः ॥ २५९ ॥
Jain Education International
For Private & Personal Use Only
१२३
www.jainelibrary.org

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490