Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 448
________________ १५७ चतुर्थः प्रस्तावः । पाताकसचिवभ्राता मन्त्रीशः साङ्गणाह्वयः । [श्राद्धाः] श्रीस्तम्भतीर्थनगरात् ताभ्यां सह समाययौ ॥ ३६३ ॥ निजवंशक्रमायान्तं संघेशत्वमवाप यः । सैष लालाभिधः संघपतिः संघविभूषणः ॥ ३६४ ॥ 5 भावसारतया येन वीतरागोऽपि तोषितः । स सिंहभटनामापि समेतः श्रावकोत्तमः ॥ ३६५ ॥ श्रीवस्तुपालसचिवान्वयमङ्गलदीपकः । मन्त्रीशो बीजलाभिख्यो हर्षात् संघे समागतः ॥३६६॥ तथा मदन-मोल्हाक-रत्नसिंहादयोऽपरे । 10 प्रतिष्ठोत्कण्ठिताः श्राद्धा असंख्याता समागताः ॥३६७॥ सर्वान् संभावयामास यथायोग्यमुपासकान् । साधुः स्मरः किमौचित्यात् प्रस्खलन्ति महाधियः ।३६८। संमान्य निखिलं संघ स्मरसाधुः सबान्धवः । समाययावुत्पताके संघे महपुरस्सरम् ॥ ३६९ ॥ 15 देसलस्य पितुः पादौ तावुभावपि बान्धवौ । भवन्दतां भक्तियुक्तौ श्रीरामलक्ष्मणाविव ॥ ३७० ॥ देसलोऽपि सुतस्नेहामृतसिक्तवपुलतः । यतोऽभूदिति रोमाश्वव्याजतोऽङ्गाकुरावलिः ॥ ३७१ ॥ अथ सुतयुगलस्याभ्यागमामन्दनन्द20 प्रमदगलितचेता देसलः संघनाथः। विहितसकलकृत्योऽहत्प्रतिष्ठाविधाने विमलगिरिशिरस्यारोहणायोधतोऽभूत् ॥ ३७२ ॥ इति श्रीशत्रुजयोद्धारे देवालयप्रस्थान-संघचलनो नाम चतुर्थः प्रस्तावः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490