Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१९०
नाभिनन्दनोद्धारप्रबंधः संघाधिपोऽपि प्रत्येक प्रत्येकं देसलः स्मरः । ताम्बूलवसनाद्यैस्तान् सगौरवममानयत् ॥२६२॥ शुभे मुहूर्तेऽथ पुरप्रवेश
विधातुमाधत्त समुद्यमं सः । विधाय शृङ्गारमशेषलोकः
संघस्य संघेश्वरमन्वियाय ॥२६३॥ अश्वादिरूढैः समरादिसंघ
सुरैर्नरैः संघपुरःस्सरैः सः। संशोभितः खानसुखासनस्थः
संघाधिपः पत्तनमन्वचालीत् ॥ २६४ ॥ श्रीसिद्धसूरिप्रमुखैमुनीशै___रुपासकैश्चापि परीतपार्श्वः । देवालयश्चामरधारिणीभि
विधूयमानेषु सुचामरेषु ॥ २६५ ॥ मृदङ्ग-भेरी-पटहादिवाद्यै
नंदद्भिरापूरितदिग्विभागः ।। श्रीपत्तने कर्तुमनाः प्रवेशं
चचाल तालाचरक्तप्तवृत्तः ॥ २६६ ॥ ( युग्मम् ) निशम्य संघाधिपदेसलं तं
समापतन्तं जनता समस्ता। मुदाऽन्विता सर्वगृहेषु हट्ट
मार्गे स्मरं वीक्षितुमेकतोऽभूत् ॥ २६७ ।। गृहे गृहे कुंकुमगुंहलीभिः ।
पुरः स्फुरद्वन्दनमालिकाभिः । संशोभितं पूजितपूर्णकुम्भै
चक्रे जनस्तत्पुरमुत्पताकम् ॥ २६८ ॥
25
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490