Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 482
________________ 10 पञ्चमः प्रस्तावः १९१ क्षमोद्वहो(द्भवो)द्भासितपार्श्वदेशः श्रीमत्सुमित्राङ्गजसंयुतो ध(ऽथ)। आ(अ)रावणप्रीतिकरोऽभिरामो विवेश साकेत इव स्मरोऽसौ ॥ २६९ ॥ तत्पृष्ठगः संघपतिः स देवा __ लयेन सार्द्ध गुरुदर्शनेन । पुरं विशन् पत्तनमत्तनेत्रा वर्गात(वर्गः कृत?)न्युञ्छनकश्चचाल ॥ २७० ॥ आकर्णयन् कर्णसुखाः सकर्ण कृताश्च यात्राकरणप्रशंसाः । स मङ्गलानि प्रविवेश गृह्णन् क्रमान्निजावासमुपाजगाम ॥ २७१ ॥ प्रदीप-दूर्वा-क्षत-चन्दनाचं स्थाले निधायाशु सुवासिनीभिः श्रीदेसलस्य स्मरसंयुतस्या लिकेऽक्षताढयं तिलकं चकार (च चक्रे?)॥२७२॥ अथ प्रवृत्ते कलगीतमङ्गले ___ जयारवे बन्दिजनस्य जाग्रति । पश्चापि चित्ते परमेष्ठिनः स्मर नलश्चकार स्वगृहं स देसलः ॥ २७३ ॥ गृहदेवालये देवालयादुत्तारितं जिनम् । प्रथमं स्थापयामास देसलः सकपर्दिनम् ॥२७४॥ अथासनसमासीनः पौरलोकैः सनन्दनः। कृतन्युञ्छनकैः साश्रुराशीःपूर्वमवन्धत ॥२७॥ स्मरोऽपि पौरवगै तं वस्त्र-ताम्बूलदानतः । कृतार्थ मन्यमानः स्वं ससन्मानममानयत् ॥२७॥ 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490