Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 484
________________ पञ्चमः प्रस्तावः भवतामपि चेदिच्छा तच्छीघ्रं चलताधुना। देवतानिर्मितो वीरो यत्रास्ते तीर्थमुत्तमम् ॥२९०॥ ततः समग्रसामग्री कृत्वा श्रीसिद्धसूरयः। चेलुमलितसंघेन साध देसलसाधुना ॥२९१॥ 5 गच्छन्नेव पथि स्वर्गरामाभिर्देसलो युतः। पुण्यवानिति सोत्कण्ठचित्ताभिरिव संवृतः॥२९२।। माघमासपूर्णिमायां पूर्णायां सिद्धसूरयः । मुख्यस्थाने कक्कसरि स्वहस्तेन न्यवेशयन् ॥२९३॥ एकस्योपाध्यायपदं वाचनाचार्यतां द्वयोः । मुनिरत्न-श्रीकुमार-सोमेन्दूनां क्रमाद्ददुः ॥२९४॥ देसलस्य सुतस्तत्र वीरस्नात्रं यथाविधि । सहजः कारयामास गोत्राष्टादशकान्वितः ॥२९॥ तत्रावारितसत्रादि सूरिभ्यः प्रतिलाभनाम् । सार्मिकवात्सल्यमुत्साहात् कुरुते स्म सः ॥२९६॥ विधायाष्टाहिकां तत्र सूरयः फलवधिकाम् । सहजेन समं जग्मुः श्रीपार्श्वस्तत्र वन्दितः ॥२९७॥ विधाय यात्रां व्यावृत्ता अविच्छिन्नप्रयाणकैः । श्रीपत्तनपुरं प्राप्ताः ससंघाः सिद्धसरयः ॥२९८॥ अथ मासावशेषे स्वायुषि श्रीसिद्धसूरयः । कक्कसूरिं प्राहुरायुर्मासमात्रमितो मम ॥२९९॥ अहोभिरवशिष्टैस्तैरष्टभिस्तदहो मम । अनाशकं प्रदातव्यं संघक्षामणपूर्वकम् ॥३०॥ किमिदानीं कलौ ज्ञानं भवेदिति विचिन्त्य ते। न तत् प्रोक्तेऽपि दिने कक्कसूरयोऽनशनं ददुः ॥३०॥ गुरवोऽपि स्वयमेवोपवासद्वितयं व्यधुः । संघप्रत्यक्षमक्षेपात्ततो ददुरनाशकम् ॥ ३०२ ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490