Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 485
________________ नाभिनन्दनोद्धारप्रबंधः । सहजप्रमुखाः सर्वे श्रावका भक्तिभावुकाः महोत्सवं विदधिरे स्पर्द्धमानाः परस्परम् ॥३०॥ चातुवर्णोऽपि यो लोको नगरे निवसन्नभूत् । बालो युवाऽपि वृद्धोऽपि वन्दनाय स आगतः ॥३०॥ पञ्चभिर्योजनैराग् ग्रामाः केचन सन्ति ये। तेभ्योऽपि नास्ति स प्रायो यो नन्तुं नागतो जनः॥३०५॥ षड्भिर्दिनैर्यथोक्तायां वेलायामेव सूरयः । समाधिना नमस्कारोच्चारिणः स्वर्भुवं ययुः॥३०॥ स्वयं यथोक्तवेलायां मिलितै गरैमिथः । 10 प्रोक्तं किमिति न ज्ञानं प्रोच्यते साम्प्रतं बुधैः॥३०७॥ ज्ञानं विना कथमिव ज्ञायते तादृशं स्फुटम् । जीवितं मरणं वाऽपि तदद्यापि हि विद्यते ॥३०॥ इति प्रशंसामुखरै गरैरुत्सवस्तदा। प्रमदात् कर्तुमारेभे देवस्तीर्थपतेरिव ॥३०९॥ षड्भिरेव दिनैर्जात एकविंशतिमण्डपे । विमाने मुनयः सूरिशरीरं स्वचितं न्यधुः ॥३१०॥ स्त्रीणां हल्लीसकैः स्थाने स्थाने लकुटराशकैः प्रेक्षणकैर्जायमानैर्वादित्रैश्च पुरस्सरैः ॥३११॥ सरिविमानसंस्थोऽसौ प्रत्यक्ष इव निर्जरः। 20 स्वर्गलॊकं यातुकामो निस्ससार पुरात्ततः ॥३१२॥ ततोऽहमहमिकया श्रावकैः स्कन्धदायिभिः । क्रोशं विमानं तन्निन्ये दर्शने वलिते सति ॥३१३॥ चन्दना-गरुकाष्ठौधैः कर्परैश्चैव केवलैः। पूज्यानां देहदाहोऽभूदन्य काष्ठकथाऽपि न ॥३१॥ 25 षट्सप्ततिसंयुतेषु प्रयोदशशतेष्वथ । चैत्रशुद्धचतुर्दश्यां सूरयः स्वर्भुवं ययुः ॥३१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490