Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
10
पञ्चमः प्रस्तावः
१९५. स्वर्गभूमिं प्रपन्नेषु प्रभुश्रीसिद्धसरिषु । श्रीककसरयो गच्छं साम्प्रतं पालयन्त्यमी ॥३१६॥ तदानीं सार्वभू(भौ)मः श्रीकुतबदीनाना नृपः । साधुस्मरगुणान् श्रुत्वा जज्ञे तद्दर्शनोत्सुकः ॥३१७॥ संप्रेष्य स स्फुरन्मानं स्मरसाधुमथाह्वयत् । विधाय सोऽपि सामग्री प्राचलच्छिथिलोपरि ॥३१८॥ तत्र संप्राप्त एवायं श्रीसुरत्राणभूभुजा । सगौरवं समाहूय समरो निरवर्ण्यत ॥ ३१९ ॥ विविधान्युपायनानि मुक्त्वा भूपपुरः स्मरः। नमन भुवि लुठन् राज्ञा सोत्कण्ठं ददृशे दृशा ॥३२०॥ सन्तुष्टः श्रीसुरत्राणः समराय स्वयं ददौ । सप्रसादं सर्वदेशव्यवहारिषु मुख्यताम् ॥३२१॥ तत्र स्थितस्याभिनवाभिनवैः स्वामिनिर्मितैः । प्रसादैः प्रमुदस्तस्य ययौ कालः कियानपि ॥३२२॥ दानवीरो गायनस्य समरः पारितोषिके । ददौ सहस्रं टङ्कानामेकस्मिन् ध्रा(ध्रु)वके कृते ॥३२३॥ श्रीमत्कुतबदीनस्य राज्यलक्ष्म्या विशेषकः। ग्यासदीनाभिधस्तत्र पातसाहिस्तदाऽभवत् ॥३२४॥ तेनातीव प्रमोदेन स्मरसाधुः सगौरवम् । सन्मान्य खानवदयं पुत्रत्वे प्रत्यपद्यत ॥३२५॥ सत्रासौ श्रीसुरत्राणबन्दिबद्धं स्मरः सुधीः । पाण्डुदेशेश्वरं वीरवल्लभाभिधभूभुजम् ॥३२६॥ मोचयित्वा प्रभोद्भ्यः स्वदेशे संव्यधाप्यत । राजसंस्थापनाचार्यविरुदं समुपार्जयत् ॥३२७॥ पातसाहिस्फुरन्मानाद्धर्मवीरः स्मरस्तथा । मथुरायां हस्तिनागपुरे +जै(जि)नजनिक्षितौ ॥३२८॥ + जिनस्य-श्रीनेमिनाथस्य जनिक्षितौ-जन्मभूमौ
15
-
-
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 484 485 486 487 488 489 490