Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 487
________________ १९६ नाभिनन्दनोद्धारप्रबंधः । बहुभिः संघपुरुषैः श्रीजिनप्रभसूरिभिः । समन्वितस्तीर्थयात्रां चक्रे संघपतिर्भवन् ॥३२९॥[युग्मम्] अथो तिलङ्गविषये ग्यासदीनसुतं स्मरः । आशिश्रयदुल्लखानं प्राप्तमानं सदा पितुः ॥३३०॥ खानेनापि प्रपेदेऽथ भ्रातेति समरो मम । विश्वासपात्रं तदाऽसौ तिलङ्गाधिपतिः कृतः॥३३१॥ तत्रैकादश लक्षाणि मानवानामपापधीः । तुरष्कबन्दिबद्धानाममोचयदयं स्मरः ॥३३२॥ अनेकेषां भूपतीनां राणकानामपि स्मरः । 10 व्यवहारिणामप्येष उपचक्रे च भूरिशः ॥३३३।। श्रावकानपि सर्वेभ्यो देशेभ्यः समुपागतान् । सकुटुम्बान् स्थापयित्वा तिलङ्गविषये स्मरः ॥३३४॥ उरंगलाभिधपुरे कारयित्वा जिनालयान् । जैनशासनसाम्राज्यमेकच्छत्रमकारयत् ॥३३५॥ 15 तिलंगविभुतां प्राप्य परनारीसहोदरः। सर्वोपकारकारी स द्योतयामास पूर्वजान् ॥३३६॥ जन्मप्रभृति यो नित्यमुदितोदितभाग्यभाक् । बभूव समरश्चक्रवर्तीव जिनशासने ॥३३७।। विश्वप्रीतिकरत्वेन केषां चेतस्सु नास्पदम् । 20 स चकार महासारः स्मरः स्मर इवावनौ ॥३३८॥ नीत्या येन तिलङ्गदेशमवता श्रीरामचन्द्रायितं दानं चाप्रतिमं सदैव ददता पात्रेषु कर्णायितम् । जीवानामभिरक्षणं विदधता जीमूतपात्रायितम् तं साधु भरतेश्वरप्रतिनिधिं कः स्तोतुमीशःस्मरम्॥३३९ 25 कलावपि कृतयुगावतारं समरः क्षितौ । विधाय स ययौ स्वर्ग तत्रापि तच्चिकीर्षया ॥३४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490