Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१८८
नाभिनन्दनोद्धारप्रबंधः शंखः श्रीनेमिनाथेन यजरासन्धविग्रहे । नृपलक्षजयेऽपूरि तस्मात्शंखेश्वरं पुरम् ॥ २४५ ॥ तत्पुरालंकृतिः श्रीमानास्ते पार्श्वजिनेश्वरः । यश्चिरं प्राणतस्वर्गाधीश्वरेण पुराऽचितः ॥२४६॥ चतुःपञ्चाशल्लनाणि वर्षाणां प्रथमे गवि । पूजितस्तदधीशेन भावभूषितचेतसा ॥ २४७ ॥ लक्षाणि तत्प्रमाण्येव चन्द्रेन्द्रेणाथ पूजितः । सूर्येन्द्रेण तत्प्रमा(नि)णि लक्षाणि परिपूजितः ॥२४८॥
पातालेऽपि चं तावन्ति वर्षलक्षाणि तक्षकः । 10 पन्नगाधिपतिर्भक्तिसंयुतो यमपूपुजत् ॥२४९॥ पातालात्प्रतिवासुदेवसमरे श्रीवासुदेवेन यः
सैन्ये मारिभयादिते विलसति श्रीनेमिनाथाज्ञया। तच्छान्त्यै प्रकटीकृतोऽथ सहसा तत्स्नात्रवारिच्छटा
संयोगेन जनोऽखिलोऽपि विधे नीरुक् स पार्श्वः श्रिय॥ 15 तत्र तीर्थे महादान-महापूजा-महाध्वजाः।
कृत्वा सर्वविधिं साधुः श्रीपार्श्व प्रणिपत्य सः ॥२५॥ हारिजनामनि ग्रामे गत्वा श्रीऋषभं जिनम् । नत्वाऽथ पत्तनपुरे परिचक्रे प्रयाणकम् ॥२५२॥ [युग्मम् ]
श्रीपत्तनपुरासन्ने ग्रामेऽसौ सोइलाभिधे। 20 देसलः समरेणात्र संघावासानकारयत् ॥२५३॥ श्रीदेसलं कुशलिनं सह संघलोकै
राकर्ण्य पत्तनजनो निकटाभ्युपेतम् । हर्षोल्लसत्पुलकसंगविभूषिताङ्गः
संघस्य सम्मुखमियाय गताध्यपायः ॥२५॥ -25 सर्वोऽप्यहपूर्विकया समेतो
जनस्तदानीं किल देसलस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490