Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१८६
नाभिनन्दनोद्धारप्रबंधः
आयान्तमात्मीयपर्ति निरीक्ष्य
भयेन वित्रस्तविरक्तचित्ता ॥ २२९ ॥ श्रीनेमिनाथं शरणं श्रयन्ती झंपां ददौ पर्वतशृङ्गभागात् ।
5 विपद्य तीर्थेऽत्र बभूव सद्योऽ
धिष्ठायिकाऽम्बाभिधदेवताऽसौ ॥ [त्रिभिर्विशेषकम् ] कोडीनारेऽपि तचैत्यमित्यभूत्पूर्ववासतः । तामर्चयित्वा कर्पूरकुङ्कुमाथैरनेकधा ॥ २२३ ॥ श्रीदेसलः सङ्गपतिर्दत्वा तत्र महाध्वजाम् । 10 कृत्वा महामहं द्वीपवेलाकूले क्रमादगात्॥२२४॥ युग्मम् ॥ प्रीत्या समरसिंहस्य मूलराजस्तदीश्वरः । नावाऽऽयोज्यापरां नावमुपर्यस्थापयत्कटान् ॥ २२५ ॥ देवालयं तदुपरि ससंघं समहोत्सवम् । समारोप्यानयन्मध्ये वियते (ता) च जलाध्वना ॥२२६॥ 15 हरिपालो व्यवहारी तत्रास्ते कोटिनायकः । देसलस्य ससंघस्य वात्सल्यं विदधे सुधीः ॥ २२७ ॥ तत्राप्यष्टाहिकां कृत्वा दानं दत्वाऽर्थिवाञ्छितम् । पुनः संघपतिस्तीर्थ शत्रुञ्जयमुपागमत् ॥ २२८ ॥ इतश्च श्रीसिद्धसूरिगुरवः किंचिदामयात् ।
20 साबाधा जज्ञिरे जीर्णदुर्गे तदवतस्थिरे ॥ २२९ ॥ संघोऽपि परिवारोऽपि संभूय गुरुमकदा । व्यजिज्ञपत् प्रभो ! तावत्साबाधं भवतां पुनः ॥ २३०॥ ज्ञायते ज्ञानहीनत्वान्नायुः केनापि सम्प्रति । तत्सूरिमन्त्रं कस्यापि शिष्यस्य प्रतिपाद्यताम् ||२३१|| 25 स्वाभिप्रायं तदा प्राह सर्वेषां पुरतो गुरुः । आयुमै पञ्च वर्षाणि मासो नव दिनानि च ॥ २३२ ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490