Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 461
________________ 5 10 १७० नाभिनन्दनोद्धारप्रबंधः । केऽपि पुनः सुमनोरथसारैः - पूजनमस्य जना रचयन्तिं ॥ ८२ ॥ अङ्गुष्ठमात्रमपि यत्र निवेशितं सद् बिम्बं भवत्यमितपुण्यकृते जनानाम् । तीर्थेऽत्र तीर्थविभुकारययितुः सुपुण्य __ यद्भावि तजिनपतिः प्रभुरेव वेद ॥८॥ हस्तमात्रापि यद्देवकुलिका यत्र कारिता वचनागोचरश्रयोहेतवे जायते किल ॥ ८४ ॥ तत्र मुख्यजिनेशस्य चैत्योद्धारकरस्य यत् । पुण्यं कीर्तिश्च तस्य स्यात्कः प्रमातुं तदीश्वरः ॥८॥ इति स्तुतिपरा लोका गीतनृत्यादिकारिणः । भव्या भव्यं सिद्धिसौधं संप्राप्तमिव मेनिरे ॥८६॥ एवं विधीयमानेऽथ भव्यलोकैर्महोत्सवे । अथारोहयितुं दण्डं देसलोऽभवदुधतः ॥ ७ ॥ 15 आरोढुमेतच्छिखरे सुखेन पद्यामबनानृभिरेष साधुः । स्वर्गाधिरोहार्थमभूत् किलैषा सोपानपङ्कितर्निविडा जनानाम् ॥ ८८ ॥ श्रीसिद्धसरिप्रभुदत्तहस्तः श्रीदेसलः संघपतिः सपुत्रः । उद्दण्डदण्डेन पुरः प्रयाता प्रासादमौलि सममारोह ॥ ८९ ॥ प्रासादकलशे वासान् सिद्धसरिगुरुः क्षिपन् । तमेव देशलकुले शुशुभे स्थापयन्निव ॥ ९० ॥ 25 सूत्रधारैः सदाचारैर्देशलः संघनायकः । दण्डमस्थापयत् स्थाने कीर्तिस्तम्भमिवात्मनः॥९॥ 20 Jain Education International For Private & Personal Use Only ___www.jainelibrary.org


Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490