Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पश्चमः प्रस्तावः ।
१७७ आकुच्य वामं निजजानुमास्यं
निवेश्य भूमौ शिरसोद्वहंश्च । संयोजितं पाणियुतं ससंघः
शक्रस्तवेनादिजिनं नुनाव ॥ १३९ ॥ 5 श्रीसिद्धसूरयोऽप्येवं स्थित्वा संघपुरस्सराः।
शक्रस्तवोर्ध्वमादीशं स्तोतुमारेभिरे जिनम् ॥१४०॥ देव! त्वदीयवदनं सदनं सुधायाः
संवीक्ष्य [दृक्] दृष्टिविषभाग भुजगी ममैषा । मिथ्यात्वमोहगरलं विरलं विधाय 10 सम्प्रत्यमन्दमदसम्मदमाससाद ॥ १४१ ॥ देव ! त्वदास्यशशिनोऽमृतमुख्यकुण्डात्
संज्ञानिबद्धवचनं वचनं सुधामुक् प्राप्तं निपीय भवदावभवं स्वदाहं
__संत्यज्य निर्वृतिमना अधुनाऽस्मि जातः ॥१४२।। 15 दव ! त्वदीयशय एष विशेषपुष्यत्
पीयूषवर्षसमतं मदमादधाति । मन्ये त्रयो रति-कुदृष्टि-विकारदोषा __ यातास्ततो जिन ! सुदर्शनतां गतोऽस्मि ॥१४३॥
देव ! त्वदीयमिह भालतलं विलोक्य 20
शुद्धाष्टमीकरसुधाकरसंनिकाशम् । तत्कान्तिवीचिचयपुष्टमहो मदीयं ___ चक्षुश्चकोरयुगमध बभूव सद्यः ॥ १४४ ॥ देव ! त्वदीयवपुरेतदगण्यपुण्य
- संभारसंभृतमनन्तशुभस्य हेतुः । 25 दत्तेऽमृते शिवसुखं विमुखं भवानां
भव्याङ्गिनामाप निरीक्षितमेकवारम् ॥१४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490