Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पञ्चमः प्रस्तावः
10
स्नानमाशु विरचय्य देसलो ।
दत्तवानयमधे जलाञ्जलिम् ॥ १९२ ॥ स्नात्वा मृदुहृदयनिभे सहजादयोऽपि
श्रीदेसलस्य तनयाः सनया ह्रदेऽस्मिन् । संसारघोरवनसंचरणप्रसृत
[ग्लानिं]क्षणादपनयन्ति मुदं भजन्ति ॥१९३॥ दिनानि दश तीर्थेऽस्मिन् स्थित्वा देसलसकपः । श्रीनेमिनमनुज्ञाप्य गिरिनारादवातरत् ॥ १९४ ॥ मुग्धराजस्तदा देवपत्तनाधिपतिर्मुदा । साधोः समरसिंहस्य दर्शनोत्कण्ठितोऽभवत् ॥१९५।। स्वप्रधानान् मुग्धराजः प्रैषोत् समरसन्निधौ । इति विज्ञप्तिगर्भ च स्वलेख तत्करे ददौ ॥ १९६ ॥ कलाभृता यद्भवता विधेयः शुचिना तथा ।
मम चित्तचकोरोऽयं यथा स्यात्प्रीतिमान् स्मर!॥१९७।। 15 स्मरो विज्ञाय लेखार्थ तत्राभूद् गमनोत्सुकः ।
एकं बुभुक्षितोऽन्यच्च जातं किल निमन्त्रणम् ॥१९८॥ श्रीमहीपालदेवस्य मुत्कलापनहेतवे । जगामोपायनकरः समरः स्मरसंनिभः ॥ १९९ ॥
सन्तुष्टः श्रीमहीपालः समराय ददौ स्वयम् । 20 त्रिपट्टांशुकसम्बद्धं वाजिनं श्रीकरीमपि ॥ २०० ॥
श्रीमुग्धराजनृपलेखसमागमेन
संबहितोद्यमगुणोऽनणुहर्षतर्षः । श्रीदेसलः सकलसंघपरीतपार्श्व:
श्रीदेवपत्तनपुरोपरि संचचाल ॥ २०१ ॥ श्रीधामवामनपुरीप्रमुखेषु सर्व
स्थानेषु चैत्यपरिपाटिमहान् दधानः ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490