Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 472
________________ पञ्चमः प्रस्तावः । भग्नारघट्टा अवटाभावादुच्छिन्नपादपाः। घृतैर्विना च याः काश्चिदभूवन समवाटिकाः ॥१७२॥ समरः सर्वा अपि ता नित्यपूजाकृते प्रभोः। वितीर्य मालाकारेभ्यो धनं चक्रे पुनर्नवाः ॥१७३॥ युग्मम् जिनेन्द्रसेवानिरतानशेषान् पूनाकृतो गायनसूत्रधारान् । भट्टादिकानीहितवृत्तिदाना दस्थापयद् वाग्भटवत् स लोकान् ॥ १७४ ॥ एवमारोप्य तीर्थेऽस्मिन् देसलः पुण्यपादपम् । उज्जयन्तमथो तीर्थ नन्तुं चक्रे उपक्रमम् ॥ १७५ ॥ देवालयश्चचालाथ सुमुहूर्ते पुरःस्थितः । तस्यानु देसलः सर्वसङ्घलोकान्वितोऽचलत् ॥१७६॥ अमरावत्यादिपुरग्रामेषु जिनशासनम् । भासयन्नद्भुतैः कृत्यैरुजयन्तगिरिं ययौ ॥ १७७ ॥ 15 श्रीजीर्णदुर्गपुरनाथमहीपदेवः श्रुत्वा समेतमुपदुर्गममुं ससंघम् । श्रीदेसल-स्मरगुणैरिव कृष्टचित्तः। संघेश्वरामिमुखमेष समाजगाम ॥ १७८ ॥ वज्रचक्राङ्कितकरौ महीपालस्मरौ तदा । 20 इन्द्रोपेन्द्राविवाभातां मिलितौ प्रीतितत्परौ ॥ १७९ ॥ परस्परं समालिंग्य तौ निविष्टौ समासने । क्षेमप्रश्नादिकालापैः प्रीत्या द्वावप्यहृष्यताम् ॥१८॥ विविधोपायनैः साधुर्महीपालमतोषयत् । सोऽपि प्रसाददानेन द्विगुणेन स्मरं पुनः ॥ १८१ ॥ 25 श्रीमहीपालदेवेन स्मरेण सहयायिनों। संघपतेर्देसलस्य प्रवेशमहिमाऽऽदधे ॥ १८२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490