Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 462
________________ पश्चमः प्रस्तावः अबन्धयत्कैरवबन्धशुद्धां दण्डे जयन्तीमथ वैजयन्तीम् । कलेः करालस्य रिपोर्जये या समुच्छ्रिता स्वीयजयध्वजेव ॥ ९२ ॥ सर्वज्ञमूनि सिता वितताऽतिदीर्घा कालेयहस्तकयुता रुरुचे पताका । मन्दाकिनीव दिवतोऽत्र समुत्तरन्ती कोकान्विता भविकलोकपवित्रतायै॥ ९३ ॥ तथा सुतैः पञ्चभिरन्वितोऽसौ तदा शरीरी करणैरिवाथ । स ज्ञानधर्मेष्वतिशुद्धबुद्धिः सर्वेषु साधुः परभागमाप ॥ ९४ ॥ जावडिः किल पुरा विदधानो नर्तनं दयितया सह यत्र । वायुना तृणमिवैष विधात्राऽ क्षिप्यत क्वचन कोऽपि न वेत्ति ॥ ९५ ॥ तत्र सूत्रितमनोरथसिद्धि देसलः सकलसङ्घसमेतः। नृत्यति स्म सह सूनुभिरुध भाग्यवान विजयवानजनिष्ट ॥९६॥ (युग्मम्) तदा मुदा पूर्णमनाः स नाना विधानि दानानि च याचकेभ्यः। नृत्यन् ददौ काश्चन-वाजि-वस्त्र विभूषणादीन्यतुलानि साधुः ॥ ९७ ॥ नृत्यन्नसावामलसारकस्थः सुवर्णरत्नाभरणाम्बराणि । 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490