________________
पश्चमः प्रस्तावः
अबन्धयत्कैरवबन्धशुद्धां
दण्डे जयन्तीमथ वैजयन्तीम् । कलेः करालस्य रिपोर्जये या
समुच्छ्रिता स्वीयजयध्वजेव ॥ ९२ ॥ सर्वज्ञमूनि सिता वितताऽतिदीर्घा
कालेयहस्तकयुता रुरुचे पताका । मन्दाकिनीव दिवतोऽत्र समुत्तरन्ती
कोकान्विता भविकलोकपवित्रतायै॥ ९३ ॥ तथा सुतैः पञ्चभिरन्वितोऽसौ
तदा शरीरी करणैरिवाथ । स ज्ञानधर्मेष्वतिशुद्धबुद्धिः
सर्वेषु साधुः परभागमाप ॥ ९४ ॥ जावडिः किल पुरा विदधानो
नर्तनं दयितया सह यत्र । वायुना तृणमिवैष विधात्राऽ
क्षिप्यत क्वचन कोऽपि न वेत्ति ॥ ९५ ॥ तत्र सूत्रितमनोरथसिद्धि
देसलः सकलसङ्घसमेतः। नृत्यति स्म सह सूनुभिरुध
भाग्यवान विजयवानजनिष्ट ॥९६॥ (युग्मम्) तदा मुदा पूर्णमनाः स नाना
विधानि दानानि च याचकेभ्यः। नृत्यन् ददौ काश्चन-वाजि-वस्त्र
विभूषणादीन्यतुलानि साधुः ॥ ९७ ॥ नृत्यन्नसावामलसारकस्थः
सुवर्णरत्नाभरणाम्बराणि ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org