Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 460
________________ पञ्चमः प्रस्तावः । 10 तूर्य त्रिकेषु निगदत्सु पठत्सु भिख्यां . वैतालिकेषु धवलध्वनिषत्सल(ल्लस)त्सु । श्रीनाभिनन्दनविभोरचलप्रतिष्ठा श्रीसिद्धसरिगुरवोऽरचयन् प्रतिष्ठाम् ॥७॥ 5 श्रीवज्रस्वामिना पूर्वमिदानीं सिद्धसरिणा अत्र प्रतिष्ठा विहिता तेनैवं समता द्वयोः ॥७५|| स्वतेजसा भासितभूमिभागः स्वच्छस्वभावोऽलघुसत्वसारः । जिनेन्द्रमुद्राविहितस्थितियों । युक्तं ततो वञतुलामवाप ॥ ७६ ॥ मुख्यप्रासाददण्डस्य सिद्धसरेरनुज्ञया वाचनाचार्यनागेन्द्रः प्रतिष्ठां निर्ममे तदा ॥७॥ देसलः सकलसूनुसमेतश्चन्दनेन घनसारवरेण । आदिभर्तुरनुलिप्य शरीरं सत्सुमैरथ सप्त जयति स्म ॥७८॥ जिनस्य पुरतः पञ्च-पक्वान्नप्रमुखं बलिम् देसलो ढोकयामास नानाविधफलानि च ॥७९॥ भव्यजनाः प्रथमस्य जिनेन्दोः पाणिमुदीक्ष्य सकङ्कणबन्धम् । हर्षभरोत्रमदानमदङ्गा नृत्यममी रचयन्ति सरङ्गाः ॥ ८० ॥ गीतरसालसदेहनिवेशाः केऽपि जिनास्यनिवेशितनेत्राः । भूमिगता भविनश्च तदानी मादिजिनस्य गृणन्ति गुणालीम् ॥ ८१ ॥ 25 केऽपि कुरङ्गमदादि गृहीत्वा चारविलेपनमस्य च चकुः । 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490