Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पञ्चमः प्रस्तावः ।
दसलः स्वसुकृतालिमणीनां
शैलमूर्धनि निधीनिव कर्तुम् ॥ १०७ ॥ आरात्रिकं मङ्गलदीपमप्यसौ
साधुर्ददौ रूप्यमयं मनोहरम् । आरात्रिकं स्थानमवाप्तुमुत्सुक
स्तथा ल(स)षन्मङ्गलमव यत् सदा ॥१०८॥ चन्द्रोदयान सर्वचतुष्किकासु
तथैव सर्वेष्वपि मण्डपेषु।। अबन्धयत्पट्टदुकूलमूलान्
मुक्ताफलश्रेणिकृतावचूलान् ॥ १०९ ॥ अपूरयन्मेरुमसौ जिनस्या
क्षतैरखण्डैः पुरतोऽनघस्य । मुद्रः पुगैर्मोदक-नालिकेरै
विभूषणैर्दैसलसङ्घनाथः ॥ ११० ॥ स्नात्रोत्सवो मेरुगिरौ पुरा यथा
भवदसौ जन्मनि यजिनेशितुः। तथा महेर्देसलसाधुनाऽधुना
तस्यैव चक्रे किल मजने विधिः ॥ १११ ॥ अथापरान् सर्वजिनानुपोषितः
शुचिव्रतस्थः परिपूज्य देसलः। पुत्रैश्च पौत्रैश्च सहानुयायिभि
चक्रे जिनस्य प्रथमं दशाहिकम् ॥ ११२ ॥ सारेण धनसारेण श्रीखण्डेन विभोर्वपुः आर्चयदेशलस्तत्स्यादखण्डश्रीभराप्तये ॥११३॥ स सुमनाः सुमनोभिरथो जिनं
बकुल-केतकी-चम्पक-जातिभिः ।
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490