Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 455
________________ १६४ 10 नाभिनन्दनोद्धारप्रबंधः ततश्चतुर्दिक्षु जिनालयस्य निवेशिता भान्ति नवाह्नवेद्यः । चतुर्गुणीभूय किल स्मरस्य पुण्यादुपेता निधयो नवानि ॥ ३९ ॥ 5 यवाङ्कुरास्तत्परितः समन्ता न्न्यस्ता विभान्ति स्म विनीलवर्णाः । हर्षान्नवानामपि किं निधीनां रोमाकुराश्वारव आविरासन् ॥ ४० ॥ देवायतो मण्डपमध्यदेशे साधुः स्मरोऽसौ चतुरस्रवेदीम् । हस्तोन्नतां कारयति स्म नन्द्यावर्तास्थित तदुपरि चतुरस्रस्तम्भसंरंभधीरं कनककलशमौलि मण्डपं साधुधुर्यः । पृथुं सा ॥ ४१ ॥ 15 व्यरचयदतुलश्रीस्वा (सा) र्वमानानुमानं विविधवसनरम्भःसङ्गशोभाभिराममं ॥ ४२ ॥ तदन्तिके श्रीऋषभस्य मुख्य चैत्यस्य दण्डं सुमहदूध्वजाढ्यम् । न्यवेशयत् सूत्रधरैः प्रतिष्ठा20 विधापनाय प्रगुणं विधाय ॥ ४३ ॥ नाभेयचत्यं परितः प्रतिष्ठा हेतोः परेषामपि वेदिकाः स । अकारयश्चारुतराः पृथूच्चाः सवालुका व्यस्तसमूलदर्भाः ॥ ४४ ॥ 25 द्वारे निबद्धा सहकारचारुदलावलीवन्दनमालिकाऽभात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490