Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
10
नाभिनन्दनोद्धारप्रबंधः । निष्पन्नो वंशकम्बाभिर्दुर्गस्तत्परितोऽभवत् । सजीकृतः समरेण पापवैरिनिवारणः ॥ ३५० ।। तेजस्विनो महावेगाः सजात्या यस्य वाजिनः ।
अध्यक्षा इव रेवन्ता मंदुरासु विरेजिरे ॥ ३५१ ॥ 5 संघे सर्वत्र दृश्यन्ते पटकुट्यः समुज्ज्वलाः।
आवासा भोगिलोकानां पातालादिव नि:सृताः ॥३५२।। देसलो यावदारोहं न व्यधाद् विमलाचले । तावद्वर्धापकनरः स्तम्भतीर्थाद समाययौ ॥ ३५३ ॥ यद्देवगिरेः सहजपालः श्रीस्तम्भतीर्थतः । साहणः संघसहितौ द्वावेतावित्युवाच सः ॥ ३५४ ॥ सङ्गानुराग-सौभ्रात्रप्रीत्या भ्रात्रोरथ स्मरः । प्राप्य स्वर्ण सुगन्धीव तच्छत्वा मुमुदेतराम ॥ ३५५ ॥ अथ संघयुतः संघनायकः समरस्तयोः ।
ययावभिमुखं मुख्यः सतामुत्कण्ठिताशयः ॥ ३५६ ॥ 15 अपारैरश्ववारैश्च सरयैः सपदातिभिः ।
धनुर्धरैवेगवरै●नयन् धरणीतलम् ॥ ३५७ ॥ पूरयन्नुर्वरां लोकैः ककुभः काहलारवैः ययौ योजनमेकं द्राक् स्नेहसान्द्रीभवन्मनाः ॥३५८॥
जगन्मान्यो सदुल्लासकारणं नन्दन: श्रियः । 20 स्मरः स्वबन्धवोरमिलत् मधुमाधवंयोरिष ॥३५९॥ युग्मम्
भ्रातरौ गाढमालिङ्गय समरः प्रणनाम तौ। तादृक् महत्त्वं भक्ति च वीक्ष्य लोकोऽस्य विस्मितः ॥ तावपि श्रीस्मरसिंहे गाढमालिङ्गय मोदतः ।
भ्रातश्चिरं वरं संघाधिपतिं पालयोचतुः ॥ ३६१ ॥ 25 संघे ये स्तम्भतीर्थस्य सूरयो भूरयोऽभवन् ।
अवन्दत पदस्तेषां समरो भक्तिवामनः ॥ ३६२ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490