SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 10 नाभिनन्दनोद्धारप्रबंधः । निष्पन्नो वंशकम्बाभिर्दुर्गस्तत्परितोऽभवत् । सजीकृतः समरेण पापवैरिनिवारणः ॥ ३५० ।। तेजस्विनो महावेगाः सजात्या यस्य वाजिनः । अध्यक्षा इव रेवन्ता मंदुरासु विरेजिरे ॥ ३५१ ॥ 5 संघे सर्वत्र दृश्यन्ते पटकुट्यः समुज्ज्वलाः। आवासा भोगिलोकानां पातालादिव नि:सृताः ॥३५२।। देसलो यावदारोहं न व्यधाद् विमलाचले । तावद्वर्धापकनरः स्तम्भतीर्थाद समाययौ ॥ ३५३ ॥ यद्देवगिरेः सहजपालः श्रीस्तम्भतीर्थतः । साहणः संघसहितौ द्वावेतावित्युवाच सः ॥ ३५४ ॥ सङ्गानुराग-सौभ्रात्रप्रीत्या भ्रात्रोरथ स्मरः । प्राप्य स्वर्ण सुगन्धीव तच्छत्वा मुमुदेतराम ॥ ३५५ ॥ अथ संघयुतः संघनायकः समरस्तयोः । ययावभिमुखं मुख्यः सतामुत्कण्ठिताशयः ॥ ३५६ ॥ 15 अपारैरश्ववारैश्च सरयैः सपदातिभिः । धनुर्धरैवेगवरै●नयन् धरणीतलम् ॥ ३५७ ॥ पूरयन्नुर्वरां लोकैः ककुभः काहलारवैः ययौ योजनमेकं द्राक् स्नेहसान्द्रीभवन्मनाः ॥३५८॥ जगन्मान्यो सदुल्लासकारणं नन्दन: श्रियः । 20 स्मरः स्वबन्धवोरमिलत् मधुमाधवंयोरिष ॥३५९॥ युग्मम् भ्रातरौ गाढमालिङ्गय समरः प्रणनाम तौ। तादृक् महत्त्वं भक्ति च वीक्ष्य लोकोऽस्य विस्मितः ॥ तावपि श्रीस्मरसिंहे गाढमालिङ्गय मोदतः । भ्रातश्चिरं वरं संघाधिपतिं पालयोचतुः ॥ ३६१ ॥ 25 संघे ये स्तम्भतीर्थस्य सूरयो भूरयोऽभवन् । अवन्दत पदस्तेषां समरो भक्तिवामनः ॥ ३६२ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy