Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 434
________________ चतुर्थः प्रस्तावः । भोजनावसरे यत्र ते तिष्ठन्ति बुभुक्षिताः । दुस्तदा साधुनरास्तेषां भोजनमीहितम् ॥१८॥ तथा यत्राययौ रात्रिस्तत्र साधुनरैः कृतम् । बभूव भोजनं तेषां शयनं च तदन्तिके ॥१८२॥ 5 एवं प्रयान्ती फलही पूज्यमाना पदे पदे । आरुरोह गिरौ षड्भिर्वासरैरतिशायिनी ॥१८३॥ षड्मासर्यदुपरि जावडिः प्रथमं जिनम् । . रथपृष्ठस्थितस्वाङ्गस्वप्रियाङ्गः पुराऽनयत् ।।१८४॥ तत्रेयं फलही साधोः षड्भिरेव हि वासरैः । 10 जगाम देवप्रासादमाससाद सपद्यपि ॥१८५॥ श्रीदेवमन्दिरे द्वारतोरणस्य पुरःस्थिताम् । [बिम्बस्य फलहीं घटयामासुस्तां वैज्ञानिकपुङ्गवाः॥१८६॥ घटनम् । घट्यमानस्य बिम्बस्य टङ्काघातभवो रवः पापद्वीपस्य त्रासाय मृगारातेरिवाभवत् ॥१८७॥ 15 टङ्काघातैः फलहीतो विच्युता विशदाः कणाः । प्रसस्नुः पुण्यदुग्धोत्था इव किं फेनाबिन्दवः ॥१८८।। टंकाघातादवा शुक्ला उच्छलन्ति स्म रेणवः । देसलश्लोककर्पूरक्षोदा इव चतुर्दिशम् ॥१८९।। बालचन्द्रोऽपि हि मुनिः सर्वविद्याविशारद । 20 तेषां शिक्षां ददावेकान्तराशनरतः सदा ॥१९॥ बिम्बं सुघटितं धृष्टं तथोत्तेजितचित्रितम् । बालचन्द्रो मुनि(निः)मुख्यस्थाने शीघ्रमनाययत्॥१९१॥ तदा खलाः केऽपि कलेः प्रभावादसहिष्णवः । धर्मकार्येऽपि मात्सर्य दधुरेते यदीदृशाः ॥१९२॥ 25 कलिः खल इवानार्यभरितो वर्ततेऽधुना । असतोऽपि यतो दोषानारोपयति[ यत् ] सताम् ॥१९३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490