Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 433
________________ १४२ नाभिनन्दनोद्धारप्रबंधः ।। तदा सुधालिप्तभूमौ गोलिकेव सुखेन तत् । आयासेन विना तेषां याति क्रोशचतुष्टयम् ॥१६८॥ [चतुर्भिः कलापकम् ] एवं सा पथि गच्छन्ती पुण्डरीकगिरेरधः। पुंडरीकगिरि 5 फलही समुपेयाय पूज्यमाना जनैः सदा ॥१६९॥ फलही पादलिप्तपुरस्यास्य संघ आगमनोत्सवम् । समुपेयाय । चक्रे वर्धापनं साधुपरिवारोऽप्यवारितम् ॥१७॥ अथ वर्धापकनराः समागत्याशु साधवे । शत्रुञ्जयगिरौ प्राप्तां शशंसुः फलहीमिमाम् ॥१७॥ साधुस्तैरेव भूयोऽपि प्रतीपप्रेषितैर्नरैः । अध्यारोहाय शैलेऽस्याः शिक्षा प्रेषयति स्म सः ॥१७२॥ सर्ववैज्ञानिकेभ्योऽथ विज्ञान विज्ञाय षोडश। बिम्बस्य घटनायासौ प्रेषयामास पत्तनात् ॥१७३॥ तथा श्रीजीर्णप्राकारात् मण्डलीकमहीभुजा । 15 नवसंख्यसुराष्ट्राणामधिपेन य उच्यते ॥ १७४ ॥ 'पितृव्य' इति तं साधुर्बालचन्द्राभिधं मुनिम् । आनाययन्नरान् प्रेष्य शीघ्रं शत्रुञ्जये गिरौ॥१७॥ युग्मम् किश्चिज्ज्ञानतमोव्याप्तचेतसामथ तन्नृणाम् । समियाय प्रकाशाय बालचन्द्रोऽपि चन्द्रवत्॥१७६॥ 20 उत्तार्य शकटात्सूत्रधारैर्लध्वीमकारयत् । बालचन्द्रोऽथ फलही शैलाध्यारोहणोचिताम् ॥१७७॥ अथासौ चतुरशीतिं स्कन्धवाहनपौ(पू)रुषान् । अमीलयदीहितार्थदानसम्प्रीणितात्मनः ॥१७८॥ तर्निर्बद्धा यथायुक्त्या काष्ठरज्वादिभिर्नरैः । 25 . फलही स्कन्धवाहानामंसेष्वेषा न्यवेश्यत ॥१७९।। तमारोहयितुं तेऽपि चेलुः शैलोपरि द्रुतम् । ऊर्ध्व प्रापयितुं साधोः साक्षात्कीर्तिमिवोज्ज्वलाम् ॥१८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490