Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 439
________________ १४८ नाभिनन्दनोद्धारप्रबंध. मासः पूर्वमकर्मा योऽभवत्कार्येषु वर्जितः । साधूनां धर्मपोषाद्धि पोषाख्योऽभूच्छुभाश्रयः ॥२४॥ यक्षः कपर्दी श्रीसत्यदेवी श्रीशासनामरी । तदानीं समरस्याशु शरीरे समवासरत् ॥२४७॥ 5 शृङ्गकौशुम्भवनाढयौ लिप्तौ कुकुमहस्तकैः । विक्कणत्किङ्किणीवाणदत्तश्रुतिसुखासिकी ॥ २४८ ॥ समभंगौ समखुरौ समदेही समच्छवी। देवालये सौरभेयौ धौरेयो नियोजितौ ॥२४९॥ (युग्मम्) धवलानां धुरीणानां जगतः स्थितिकारिणाम् । वृषाणामुचितमेव यद्देवालयसंश्रयः ॥ २५० ॥ देवालयरथे हस्तकृतरश्मिः समारुहत् । सामन्तो मातलिरिथ यात्रायां वज्रिणो रथे ॥२५॥ तदा सुवासिनी काऽपि स्थालं सम्पूर्णमक्षतैः। पुरः स्फुरन्नालिकेरं समादाय समाययौ ॥२५२॥ 15 साधोमूनि देसलस्य समरस्य च हर्षतः। अक्षतानक्षयंनिधीनिव निक्षिपति स्म सा ॥२५३॥ नालिकर करें दत्वा श्रीखण्डतिलकादनु । पुष्पमालां गले न्यस्य ददावाशीर्वचोऽपि हि ॥२५४॥ सामन्तोऽथ पुरो वर्यतूर्यत्रयरवैर्मुदम् । 20 जगतोऽप्युजागरयन् देवालयमचालयत् ॥२५५॥ श्रीकरी (रो)वृषभो रश्मिबद्धः पर्याणितो हयः। पुरोनिर्नयने तानि बभूवुः शकुनान्यथ ॥२५६॥ इत्यादिकान्यनेकानि शकुनानि निरीक्ष्य सः साधुः सिद्धिं स्वकार्याणां मेने हस्तगतामिव ॥२५७॥ 25 पुरोगैः सूरिभिः सारैरनेकैश्च मुनीश्वरैः । मरुत्पथ इवापूर्वस्तदा देवालयोऽचलत् ॥२५८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490