Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 443
________________ १५२ नाभिनन्दनोद्धारप्रबंधः । दधानो धर्मवीरत्वं वीराभिख्य उपासकः ।। चचालाचलभावेन सह संघौधवारिणि ॥ २९८ ॥ संघेऽत्र देवराजोऽपि देवराज इवाबभौ । चक्रे प्रदाय दीनेभ्यो यो मत्येभ्योऽतिशंबलम् ॥२९९॥ 5 ये केऽप्युपासकाः प्रायो गूर्जरोया तदाऽभवन् । तेषु पश्चान्न कोऽप्यस्थात् समरस्यानुरागतः ॥३०॥ एवं सकलदेशेभ्यः संघेषु मिलितेष्वथ । संघस्य कारयामास प्रयाणं देशलोऽग्रतः ॥ ३०१ ॥ जैत्र-कृष्णौ लंढकश्च हरिपालोऽपि मण्डपे । 10 स्तम्भा इवामी चत्वारोऽभूवन संघमहा(ही)धराः ॥३०२॥ श्रीमन्तमलपखानमनुज्ञापयितुं स्मरः । महोपायनमादाय जगाम नृपमन्दिरम् ॥३०३॥ अढौकयद् ढौकनानि श्रीखानस्य पुरः समरः । सन्तुष्टः सोऽप्यदात् तस्मै तसरीफां हयान्विताम् ॥३०॥ 15 स्मरोऽथ स्वामिनः पार्श्वे ययाचे यमदारकान् । ये दुष्टनिग्रहायालंभूष्णवः सत्यनामकाः ॥३०॥ खानेनापि महामीरा वीरा धीरा दशामुना । वितीर्णाः संघरक्षार्थ प्रधाना यमदारकाः ॥ ३०६ ॥ तानादाय स्मरः साधुः संघं च पृष्ठतः स्थितम् । 20 देसलस्यामिलत्संघे सोऽनघे संघनायकः ॥ ३०७ ॥ देवालयस्य पुण्यस्य मार्गदर्शी च देशलः । सुखासनादिरूढः सन् सुखेन पुरतोऽगमत् ॥३०८॥ साधोः सहजपालस्य सुतः संघस्य पृष्ठतः सोमसिंहो निर्विकारश्चकार परिरक्षणम् ॥३०९॥ स्मरः करस्फुरञ्चको भोजनाच्छादनैर्वरैः । चक्रे भरतचक्रीव शावकाणामनूनताम् ॥३१०॥ 25 Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490