________________
१४८
नाभिनन्दनोद्धारप्रबंध. मासः पूर्वमकर्मा योऽभवत्कार्येषु वर्जितः । साधूनां धर्मपोषाद्धि पोषाख्योऽभूच्छुभाश्रयः ॥२४॥ यक्षः कपर्दी श्रीसत्यदेवी श्रीशासनामरी ।
तदानीं समरस्याशु शरीरे समवासरत् ॥२४७॥ 5 शृङ्गकौशुम्भवनाढयौ लिप्तौ कुकुमहस्तकैः । विक्कणत्किङ्किणीवाणदत्तश्रुतिसुखासिकी ॥ २४८ ॥ समभंगौ समखुरौ समदेही समच्छवी। देवालये सौरभेयौ धौरेयो नियोजितौ ॥२४९॥ (युग्मम्) धवलानां धुरीणानां जगतः स्थितिकारिणाम् । वृषाणामुचितमेव यद्देवालयसंश्रयः ॥ २५० ॥ देवालयरथे हस्तकृतरश्मिः समारुहत् । सामन्तो मातलिरिथ यात्रायां वज्रिणो रथे ॥२५॥ तदा सुवासिनी काऽपि स्थालं सम्पूर्णमक्षतैः।
पुरः स्फुरन्नालिकेरं समादाय समाययौ ॥२५२॥ 15 साधोमूनि देसलस्य समरस्य च हर्षतः।
अक्षतानक्षयंनिधीनिव निक्षिपति स्म सा ॥२५३॥ नालिकर करें दत्वा श्रीखण्डतिलकादनु । पुष्पमालां गले न्यस्य ददावाशीर्वचोऽपि हि ॥२५४॥
सामन्तोऽथ पुरो वर्यतूर्यत्रयरवैर्मुदम् । 20 जगतोऽप्युजागरयन् देवालयमचालयत् ॥२५५॥
श्रीकरी (रो)वृषभो रश्मिबद्धः पर्याणितो हयः। पुरोनिर्नयने तानि बभूवुः शकुनान्यथ ॥२५६॥ इत्यादिकान्यनेकानि शकुनानि निरीक्ष्य सः
साधुः सिद्धिं स्वकार्याणां मेने हस्तगतामिव ॥२५७॥ 25 पुरोगैः सूरिभिः सारैरनेकैश्च मुनीश्वरैः ।
मरुत्पथ इवापूर्वस्तदा देवालयोऽचलत् ॥२५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org