SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । महातीर्थेऽत्र प्रासादसमुद्धारच्छलेन सः । मन्त्रीशः स्वपूर्वजानामुद्धारं विदधे किल ॥२४७॥ उद्धारे व्ययितास्तिस्रः कोट्यों लक्षत्रयोनिताः । वाग्भटेनोगटानन्दवशोल्लसितचेतसा ॥ २४८॥ 5 एवं विधाय प्रासादसमुद्धार महोत्सवम् । वाग्भटो धर्मकार्याणि राजकार्याणि चाकरोत् ॥ २४९ ॥ पञ्चमोऽत्र महातीर्थे समुद्धारकरोऽजनि । तीर्थोद्धारकराः पञ्च त एते विश्रुता क्षितौ ॥ २५० ॥ तद्भो ! शत्रुञ्जयगिरौ विद्यमाने न किंचन । 10 आस्ते विनष्टं तीर्थस्योद्धतिकृत् तु विलोक्यते ॥ २५९ ॥ एवं गुरुदितं श्रुत्वा प्राञ्जलिर्देशलोऽवदत् । अयं गिरिर्महातीर्थमिदानीं विदितं मया ॥२५२॥ तदहं कारयिष्यामि प्रभो ! तीर्थसमुद्धृतिम् । यतः समग्रसामग्री साम्प्रतं वर्तते मम ॥ २५३॥ 15 भुजाबलं धनबलं पुत्राणामपि मे बलम् । सुहृद्वलं नृपबलं दानशक्तिस्तथोत्तमा ||२५४ ॥ सत्यामेवं सर्वशक्तौ त्वत्प्रसादबलं यदि । भवेत्सहार्य तदहं कारयामि समुद्धृतिम् ॥ २५५ ॥ श्रीसिद्धसूयोऽप्याहुर्धर्मकर्मसु सर्वदा । 20 गुरुप्रसादः प्रवणः कर्तुं साहाय्यमन्वहम् ॥ २५६ ॥ तत्तीर्थस्य समुद्धारं शीघ्रं देशल ! कारय । विश्वप्रसिद्धं यदिदं धर्मस्य त्वरिता गतिः ॥ २५७ ॥ गुरुप्रसादमासाद्य देसलः साधुसत्तमः । गृहे गत्वा समरस्य सूनोराख्यन्निजेप्सितम् || २५८|| 25 सोऽपि श्रुतिपुटाभ्यां तत्पीयूषमिव पैतृकम् । निपीय वचनं सद्यः प्रीति(त) चित्तोऽजनि स्मरः ॥ २५९ ॥ Jain Education International For Private & Personal Use Only १२३ www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy