________________
१२२ नाभिनन्दनोद्धारप्रबंधः । मन्त्रिमन्त्रितमाकर्ण्य सकर्णास्ते सभासदः । धूनयन्तः स्वमूर्धानं प्रोचिरे वचनं मिथः ॥२३४॥ धन्यो मन्त्रीश्वरो यस्योल्लसिता मतिरीहशी। यतः पुण्यवतां पुण्यमतिः स्याहीर्घदर्शिनी ||२३५॥ 5 ततो मन्त्री सूत्रधारं समाकारयति स्म तम् ।
सोऽपि शत्रुञ्जयगिरेः शीघ्रमेव समाययौ ॥२३६॥ मन्त्रिणाऽप्रच्छयसौ सूत्रधारः किमिह कारणम् । सद्यो निष्पन्नमात्रो यत् प्रासादोऽयं द्विधाऽभवत् ॥२३७॥
सोऽत्यूचे परितो गर्भगृहस्य भू(भ्र)मिसंयुतः। 10 प्रासादः प्रविशद्वायुबलावेशवि(व)शोऽस्फुटत् ॥२३८॥
कथं भ्रमियुतस्तर्हि प्रासादो भवता कृतः। इत्युक्ते मन्त्रिणा सूत्रधारः प्राह घियांनिधिः ॥२३९॥ देव! चेमिसंयुक्तः प्रासादो न विधीयते ।
तदा कारयितुं (तुः) वंशो जायते स्वल्पसन्ततिः ॥२४०॥ 15 अथ स्वस्थमनाः प्राह मन्त्री किं सन्ततिः शिवम् ।
जीवं नयति पुण्यं तु स्वर्गमोक्षौ ददाति भोः ! ॥२४॥ तद् गत्वा मूलतो भूयः प्रासादं निचितं दृढम् । विधेहि शाश्वती कीर्तिसन्ततिमें भवेद्यथा ॥२४२॥
सूत्रधारोऽपि लब्ध्वास्यादेशं शत्रुञ्जये गिरौ । 20 यात्वा स्वल्पदिनैश्चैत्य सम्पूर्ण निबिडं व्यधात् ॥२४३॥
प्रासादेऽथ सुनिष्पन्ने वाग्भटः प्रोद्भटः श्रिया । स्वस्वामिनमनुशाप्य यात्रायां विमलाचले ॥२४४॥ चचाल वाचालिताशाचक्रश्चक्रधराकृत्तिः । निःस्वानध्वनिभिः सूरिमुख्यसंघसमन्वितः ॥२४५॥ [युग्मम्] 25 तत्रापारितसत्रादिपूर्वकं समहोत्सवम् ।
ऋषभस्थापनं चैत्यप्रतिष्ठां च व्यधापत् ॥२४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org