SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । मन्त्री मुद्रां नृपगुरोर्लब्ध्वा सिद्धिकरी जने । समभूद् गोषस्थानं (?) दुष्टनिग्रहकार्यपि ॥ २२९ ॥ वाग्भटस्यान्यदा तेऽपि मन्त्रिणः प्रणताः पुरः । सर्व विपयामासुस्तत्तातोदयनोदितम् ॥ २२२ ॥ 5 वाग्भटोsपि तदेवानु गृहीत्वाऽभिग्रहद्वयम् । स प्रैषीत् ससूत्रधारान् विमलाद्रौ नियोगिनः ॥२२३॥ शुभे मुहूर्ते प्रासादप्रारम्भो विदधेऽथ तैः । वत्सरेणैव सम्पूर्णः कलशान्तोऽप्यजायत ॥२२४॥ कलशे चटिते तस्मिन् कर्मस्थायिनियोगिभिः । 10 सविज्ञप्तिर्नरः प्रैषि तद्वर्धापनिकाकृते ॥ २२५ ॥ मुद्रामुन्मोच्य तं लेखं मन्त्री वाचयति स्म सः । ततोऽवगस्य सम्पूर्ण प्रासादं मुमुदेतराम् ॥२२६॥ तस्मै लेखोद्वाहकाय वाग्भटो मन्त्रिनायकः । आनन्दोत्पन्नपुलको जिह्वां हेममयीं ददौ ॥ २२७॥ 15 नदन्तूर्यत्रिकाकीर्णव्योमभूमण्डलान्तरः । नृत्यत्पादकुलो यावत् प्रावर्तत महोत्सवः ॥२२८॥ तावदन्यो लेखकरः शत्रुञ्जयगिरेर्नरः । आययौ लेखमादाय मन्त्री स्वयमवाचयत् ॥ २२९ ॥ तत्रास्ते लिखितमेतत् प्रासादो यावताऽजनि । 20 सम्पूर्णस्तावता मन्त्रिन् ! प्रास्फुटन्मूलतोऽपि हि ॥ २३० ॥ तदाकर्ण्य द्विगुणितानन्दो मन्त्रीश्वरोऽभवत् । सकलोऽपि सभालोको विषण्णो मन्त्रिणं जगौ ॥२३१॥ मन्त्रिन् ! विषादावसरे हर्षः किं द्विमुणस्तव । १२१ स प्राह यदिदं जज्ञे मयि जीवति तेन सः ||२३२ || 25 द्विधा भविष्यत्येदेव प्रासादो मदनन्तरम् । तदा कोऽकारयिष्यत् तं जीवन् कारयिताऽन्वहम् ॥२३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy