________________
१२० नामिनन्दनोद्धारप्रबंधः ।
वाग्भट प्रेरयिष्यामस्तव पुत्रं तथा वयम् । पूर्णीकरिष्यति यथा शीघ्रं तव मनोरथम् ॥२०८॥ तैरित्युक्ते स मन्त्रीशः प्रमदापूर्णमानसः।
अवदत्तदह जो कृतार्थ इयता ननु ॥२०९।। 5 मन्त्री प्रोवाच मे नूनमायुः स्वल्पं तदौषधैः। न विधाप्यः प्रतीकारो धर्म एवाधुनौषधम् ॥२१०।। तको! निर्यामकं कश्चिद् यतिमानय तद् द्रुतम् । आददेऽहं यथा तस्मात् पारलौकिकशम्बलम् ॥२१॥
तैस्तदा कटके कोऽपि नोपलेभे तपोधनः । 10 आनीतो मुण्डितो वण्ठः कारितः व्रतवेषभाक् ॥२१२॥
मन्त्री तु तं सत्यसाधुं मन्वानो भावनान्वितः । प्रणम्य तत्पुरोऽकार्षीत् पर्यन्ताराधनं स्वयम् ॥२१३॥ समाधिना शुभध्यानी परमेष्ठिनमस्कृतीः ।
स्वयमेवोचरन् प्राणांस्त्यक्त्वा स्वर्गमवाप सः ॥२१४॥ 15 वण्डोऽपि तं साधुलिङ्गं चिन्तामणिमिवानघम् ।
म मुमोच दुरापं स प्राप्यानाभोगतोऽपि हि ॥२१५॥ कस्यापि स्वगुरोः पार्थं गत्वा दीक्षामुपाददे । विधिवत् पालयामास स व्रत विशदाशयः ॥२१६।। विधाय देहसंस्कार मन्त्रिणोऽपि हि मन्त्रिणः । 20 न्यवेशयन् शेलहस्तं सुराष्ट्रासु नृपाक्षया ॥२१७॥
मन्ये ससैन्याः सर्वे मन्त्रिणः पत्तने पुनः । आययुर्नृपते त्रसिंहसर्वस्वमार्पयत् ॥२१८॥ भूपोऽप्युदयनमृत्ये(त्या) तमुपेतमुपायनम् ।
सम्यग् नालोकयन्मन्निदुःखसाश्रुविलोचनः ॥१९॥ 25 नृपोऽपि प्राभृतं सर्व प्रसादीकृत्य वाग्भटे ।
ददायुदयनोडयूढां मुद्रां मुद्रितदुर्जनाम् ॥२२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org