________________
तृतीयः प्रस्तावः । जितं जितमिति प्रोच्चैर्मन्त्रिणा बन्दिनामिति । ध्वनावुच्छलिते शत्रुसैन्यमाशु पलायितम् ॥१९५॥ मध्यप्युदयनो वैरितरवारिप्रहारतः । निःसहाङ्गः पपातोव्यों कस्य कालायसं निजम् । १९६॥ 5 रणं संशोध्य सर्वेऽपि मन्त्रिणः सुभटा अथ । तुरङ्गात्पतितं मन्त्रिणं परितोऽमिलत् ॥१९७॥ तं निःश्वसन्तं करुणं कृणन्तं वीक्ष्य मन्त्रिणम् । मन्त्रिणः प्रोचिरे भद्र ! केयं कातरता तव ॥१९८॥
यः स्वामिकायें सङ्ग्रामे प्राणांस्त्यजति सेवकः। 10 स सूर्यमण्डलं भित्त्वा स्वर्ग याति सुखाकरे ॥१९९॥
तत् त्वं स्वस्वामिनः कार्य विधाय रणमूर्द्धनि । हर्षस्थाने किं कुरुषे विषादं व्यथयाऽर्दितः ॥२००॥ तव घातप्रतीकारोऽगदङ्कारैः करिष्यते।।
नीरुक भविष्यति भवान् झगित्येव विषीद मा ॥२०॥ 15 मन्ञ्यूचे निश्चिते मृत्यौ को विषादो विपश्चिताम् ।
विशेषतो मम स्वामिकायें मृत्युमुपेयुषः ॥२०२॥ घातव्यथापि न तथा व्यथते मां मनागपि । यथा पुनश्चित्तशल्यं दुःखकद् बाधतेऽधुना ।।२०३॥
किं शल्यमिति तैः पृष्टे मन्त्री पाह यथा मया। 20 श्रीशत्रुञ्जयतीथेशप्रासादोऽस्ति चिकीर्षितः ॥२०४॥
मनोरथोऽयं चित्तस्थो योऽभून्मयि मृतेऽथ सः। तथैव विलयं याता शल्यमेतदिदं मम ॥२०५॥ मन्त्रिणः प्रोचिरे मन्त्रिन्नस्मिन्नथें विषीद मा।
वाग्भटस्तव पुत्रोऽस्ति शक्तस्त्वहणमोचने ॥२०६॥ 25 पुत्रः पितुर्ऋणं दत्ते इति नीतिगतं वचः।
ततस्त्वद्वाञ्छितं चैत्यं कारयिष्यति वाग्भटः ॥२०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org