SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधा। कमेण जैत्रसिंहस्य सैन्येनातिविसर्पता । मंत्रिसैन्यं कांदिशीकं गन्तुमैच्छहिशोदिशम् ॥१८॥ स्वं सैन्य नश्यदुद्वीश्य धीरयन्मन्त्रिपुंगवः । संवर्मितोऽरिघाताय युद्धाय स्वयमुत्थितः ॥१८३॥ 5 जैत्रसिंहपुरः स्थित्वा मन्त्री स प्राह साहसी । अहो स्मराभीष्टदेवं किं वा शस्त्रं करे कुरु ॥१८४॥ यतोऽहं श्रीसिद्धचक्रवर्ती(ति हस्ती समागतः। तत्तूर्ण शरणं याहि मत्स्वामिचरणाब्जयोः ॥१८॥ सोऽप्याह साहसं शातं वणिजामस्ति नः सदा । 10 तदादत्स्व तुला हस्ते कृपाणं मुश्च मा मुहः ॥१८६॥ यथा स्युश्चणका भक्ष्या न तथा मरिचान्यपि । यथा स्ववनिता घात्या न तथा सुभटोऽपि हि ॥१८७॥ अपसृत्य ततो याहि मदृष्टिप्रसरादसि । न किराटामुपरि मच्छस्त्रं वहति क्रुधम् ॥१८८॥ 15 सेनानीविहितोऽस्मीति स्वामिना कुरु मा मदम् । सिंहनेपथ्यधारी श्वा सिंहनादं करोति किम् ॥१८९।। मन्यूचे पौरुषं शक्त्या व्यक्तीस्याद् न बहूक्तिभिः । यत्षोडशकर्ष स्वर्णं भवेद् व्यक्तं कषोपले ॥१९०॥ तद्धीरीभूय वणिजः पश्येस्तोलयतः करौ। 20 गुडपिण्डं तव मुण्डं तरवारितुलास्थितम् ।।१९१|| तदाकोल्लसत्कोपाटोपारुणितलोचनः । अभ्यधावल्लसद्भल्लो जैनसिंहोऽनुमन्त्रिणम् ॥१९२।। मन्त्र्यप्यभिमुखं तस्य प्रोग(तासिरधावत । तद्भलं चाभिगच्छन्तं चिच्छेद विदुरोन्तरा ॥१९॥ 25 तयोः खड्गाखङ्गि युद्धं रमसात् कुर्वतोरथ । छलं लब्ध्वाऽसिना मन्त्री तं निहत्य विधाकरोत् ॥१९४॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy