SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः। तदुत्तारितचिन्तोऽसौ भूपो भुनक्ति केवलम् । राज्यसौख्यं सुखेनैव मन्त्री राज्यधुरं दधौ ॥१६९॥ कदापि श्रीसिद्धचक्रवर्ती स्वप्रतिपन्थिनाम् । जैत्रसिंह सुराष्ट्रासु जेतुं मंत्रिणमादिशत् ॥१७॥ 5 मध्यप्युदयनो राक्ष आशामादाय मोदतः। चचाल चलयन्नश्वखुराघातैर्वसुन्धराम् ॥१७॥ चतुरंगबलोल्लासिरेणुभिस्तरणि दिवि । तिरयन् तेजसाऽप्याप वर्धमानपुरं रयात् ॥१७२॥ संप्रेष्य स्वबलं सर्वे सुरधारापवर्जना (१) । 10 स्वयं स्वल्पपरीवारः श्रीशत्रुञ्जयगिरिं ययौ ॥१७३॥ प्रणम्याथ तीर्थनार्थ स्नपयित्वा विशुद्धधीः । अपूपुजन् वरैः पुष्पैर्वसनाभरणैरपि ॥१७४॥ यावदारात्रिकं पाणौ कृत्वाऽस्थात् स्वामिनं पुरः। मन्त्री गन्धर्वसङ्गीयमानजैनमुणाहतः ।।१७५॥ 15 तावदाखुर्दीपवर्ति ज्वलन्तीं जिनपार्श्वतः। गृहीत्वागाद् भित्तिमध्ये ददोदयनोऽपि तत् ॥१७६।। चिन्तयामास मनसि यदाऽस्मिन् काष्ठनिर्मिते । जिनौकसि लगत्यग्निस्तदा देवः प्रमाद्यते ॥१७७।। तदहं मूलतोऽप्येतद् देववेश्माश्मभिः स्थिरम् । 20 कारयित्वा ततो भोल्ये द्वितीयं भोजनं दिने ।।१७८।। खली-तैल-जलैः सार्ध मिलितैर्वस्तुभित्रिभिः । तदा स्नानं करिष्यामि यदा पूर्ण भविष्यति ॥१७९॥ प्रतिज्ञायेति वन्दित्वा जिननाथं गिरेरथ । समुत्तीर्यायभिमुखं (?) मन्त्री चक्रे प्रयाणकम् ॥१८०।। 25 अथो मिथो मिलितयोः सैन्ययोरुभयोरपि । महारणः प्रववृते खङ्गाखान शराशरि ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy