________________
११६
नाभिनन्दनोद्धारप्रबंधः ।
इति व्यवस्थावचसा तान्नरान् व्यन्तरामराः । सद्यः उज्जीवयन्ति स्म न देवा दुर्बलापद्दाः ॥ १५६ ॥ श्रीवज्रस्वामिगुरुणा शुभलग्ने शुभाशयः । बिम्बमस्थापयच्छ्रेष्ठी प्रतिष्ठाप्य यथाविधि ॥१५७॥ 5 बिम्ब स्यानयने हेमलक्षाणि नव सोऽव्ययत् । दश लक्षान्प्रतिष्ठायां जावडिः श्रेष्ठिपुंगवः ॥ १५८ ॥ अथ पृथुप्रमोदेन प्रासादोपरि संस्थितौ । जायापती विदधतुर्नृत्यं भृत्यसमन्वितौ ॥ १५९ ॥ नृत्यन्तौ व्यन्तरैः पूर्ववैरि (र) तः प्रापितो (तौ) क्वचित् । 10 तौ तत्र यत्र न ज्ञातौ पाण्डवैर ( ? ) हि दुस्त्यजम् ॥ १६०॥ तदसौ जावडिः श्रेष्ठी चतुर्थोद्धारकारकः । वाग्भटस्य पञ्चमोद्धारः । प्रसिद्धोऽभूदो वक्ष्ये पञ्चमोद्धारकारकम् ॥ १६१॥ श्रीमच्छ्रीमालवंशेऽभूद् बोहित्यः पुरुषः पुरा । यो दौस्थ्यांबुनिधेः पुंसां बोहित्य इव तारकः || १६२ || 15 सूनुराघ्रेश्वरस्तस्य देहिलाहश्च तत्सुतः ।
जज्य (जुज्झ ) नागो महाभागस्तस्यापि तनयोऽजनि ॥ १३३ ॥ तदात्मजो वीरदेवनामा देव इवापरः ।
चित्रं न कविविद्वेषी तथा दानवशंवदः ॥ १६४ ॥ तत्सूनुरुदयनाख्य उदयद्भालभास्करः । 20 विश्वे प्रकाशमाधत्त विस्फुरत्करदीधितिः ॥ १६५ ॥ तस्य पुत्रौ द्वावभूतां सदा हितकरौ सताम् । प्रथमस्तयोर्वाग्भटो लघुराम्रभटोऽपरः ॥ १६६॥ श्रीजयसिंहदेवेन स्वभूमण्डलमण्डपे । उदयनस्तम्भ इव स्थापितः सत्त्वसंयुतः ॥ १६७॥ 25 स प्रधानशिरोरत्नं व्यापारं प्राप्य भूपतेः ।
तथा कार्यकरो जज्ञे यथाऽऽसीत् प्राणवप्रियः ॥ १६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org