SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । व्यावृत्त्य व्यन्तरो बिम्बमुत्तारयति तावतीम् । एवमायास्यतस्तस्य षण्मासा व्यतिचक्रमुः ॥१५३।। विषि(ष)पणो जावडियक्षं चिन्तयामास चेतसि । सोऽपि प्रत्यक्षतामागादुपादिशदिति स्फुटम् ॥१४॥ 5 त्वं च प्रिया च ते श्रेष्ठिन् ! चलतः शकटस्य हि । चक्रयोरुभयोः पश्चात् भवेतं ग्राववधुवाम् ॥१४५॥ द्वितीयदिवसे श्रेष्ठी सप्रियश्चक्रधारयोः । पश्चाद्वभूवावष्टम्भोपलवत् सहसा श्रिय (१) ॥१४६॥ सुखेन बिम्बमारोहगिरेरुपरि तत्क्षणात् । 10 सत्त्वं हि कारणं सिद्धः सर्व सत्त्वेन जीयते ॥१७॥ श्रीविक्रमनृपादृष्टोत्तरे वर्षशते गते । जावडिः स्थापयामास तद्विम्बं मूलनायकम् ॥१४८॥ उत्थापितो निजस्थानाधदा लेप्यमयो जिनः । तद्वि(व्य)न्तरा महारार्टि कोपावेशात्तदाऽत्यजन् ॥१५॥ 15 प्रसर्पता निनादेन सकलं तेन भूतलम् । तथा चकम्पे स यथा द्विधाऽभूद्विमलाचलः ॥१५०॥ मूर्छापन्नाः सूत्रधाराः अपरेऽप्यखिला जनाः । भूमौ निपतिताः सद्योवाचिरुस्थलवि(च्छलति)स्मच ॥१५॥ विश्वसंक्षोभमावीश्य जावडिाकुलाशयः। 20 लेप्यबिम्बाग्रतः स्थित्वा नत्वैवं तं व्यजिज्ञपत् ॥१५२॥ स्वामिन् ! ममापराधोऽयं क्षम्यतां कारणाकृतः । प्रसीद भगवन् ! मां कृपां कुरु कृपानिधे ! ॥१५३॥ मदादेशपरवशान् पराकान् कर्मकारिणः ।। उजीवय नरानेतान् सर्वसस्वहितोऽसि यत् ॥१५॥ 25 तथा ते प्रथम नाथ! स्नाप्रपूजादिकाः क्रियाः । लोकः करिष्यति सदा नूतनस्याहतस्ततः ॥१५॥ Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy