________________
११५
नाभिनन्दनोखारप्रपंधः ।
सोऽपि तुष्टोऽवदच्छेष्ठिन ! बद किञ्चित्प्रयोजनम् । करोमि तदह साध्यं यदन्येन न केनचित् ॥१३०॥ जावडिः प्राह भूपाल! ददासि यदि याचितम् । प्रार्थयामि तदाऽहं त्वां कल्पद्रुममिवार्थिनाम् ॥१३१॥ 5 ओमित्युक्ते नृपेणाथ श्रेष्ठी बिम्बमयाचत । विम्ब किमिति स प्राह(हा)नभिक्षो स यत्र गोचरे ॥१३२॥ व्यजिज्ञपज्जावडिस्तं प्रभो! योऽस्माभिरर्च्यते । देवोऽस्य बिम्बं तन्मूर्तिरत्र भूमिगृहेऽस्ति सा ॥१३३॥
भूपः प्रोचे गृह्यतां द्राक् वेलि भूमिगृहं यदि । 10 यक्षोदितैरभिज्ञानरक्षासीत्स्थानकं स तत् ॥१३४॥
यावदाविर्भावयन्ति भूमि भूमिगृहान्विताम् । पुरुषाः श्रेष्ठिनस्तावदू बिम्ब प्रादुरभूत्ततः ॥१३५॥ चक्रेश्वर्या देवतयाः पूज्यमानमहर्निशम् ।
यदासीदू विविधै रत्नाभरणैर्दिव्यदामभिः ॥१३६॥ 15 तं दृष्ट्वा जवनाधीशः साक्षात् कतैकनिसृतः।
इति ध्यात्वा प्रणिपत्य महोत्सवमकारयत् ॥१३७॥ प्रशशंस सुरत्राणो जावडिश्रेष्ठिनं मुदा । धन्यस्वं पुण्यवान् यस्य प्रसीदति] सुरा अपि ॥१३८॥
तद् गृह्यतामिदं बिम्बं पूरय स्वं मनोरथम् । 20 ममापि पुण्यलाभोऽस्तु स्वस्थानादस्य दानतः ॥१३९॥
दुकूलवसनैः स्वर्णभूषणैरथ जावडिम् । सम्मान्य प्राहिणोद् भूपः सबिम्ब महसा सह ॥१४०॥ क्रमेण मार्गमुलक्ष्य दुर्लक्ष्यमपि भाग्यतः ।
देवतातिशयाद बिम्बं श्रीशत्रुञ्जयमापतत् ॥१४१॥ 25 जावडिर्यावती भूमि गिरेरुपरि वासरे ।
तद्विम्बमारोहयति महायासपरैर्नरैः ॥१४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org