Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
AGUSTUS
आलोक्य तत्कुटुंबानि, गाढं परिविदेविरे ॥ ६५५॥ तत्रौदयनिरायात-स्तद् दृष्ट्वाऽचिंतयच्चिरम् । अहो नामापि गाया, नास्ति हाहा बभूव किम् ? ॥ ६५६ ॥ पुण्याय प्रेकृते चैत्ये, प्रत्युताऽधं ममाऽभवत् । जीवितायाऽऽदृते पथ्ये, रोगिणो |मरणं यथा ॥६५७॥ इयतां देहिनां भूत्वा, वृथा मृत्युनिबंधनम् कथं दशे यिता हाऽहं, कलंकीव जनान् मुखम् ॥६५८॥
गर्तामृतानामुष्णोष्णैः, स्त्रैणैः स्वासैः प्रसृत्वरैः। भस्मयिष्ये ध्रुवं जीवन् , प्रमीतोऽहं स्वयं वरम् ॥ ६५९ ॥ ततस्तावसाधोत्पन्नं, पंकं माष्टुमना इव । झंपार्थ स समारोह-निकटं नर्मदातटम् ॥ ६६० ॥ पतिवानुगा पत्नी, स्यादिति श्रुतपूर्विणी । तेन पत्या निषिद्धाऽपि, पृष्ठे मर्तु प्रिया स्थिता ॥ १६१॥मा मेति व्याहरत्स्वेव, सबाष्पेष्वनुजीविषु । ददावा
भटो झंपा, निर्विष्ण इव सप्रियः॥ ६६२ ॥ अधस्तात् पतितोऽप्येष, सप्रियोऽप्यक्षतांगकः । अपश्यत् पुरतः कांचिनारी तेजोमयीमिव ॥ १६३ ॥ अन्वयुंक्त च भद्रे! त्वं, वद काऽसि विकाशिरुक् । इहादृष्टचरी कस्मा-दकस्मादागताऽसि च? ॥६६॥ हरभ्यामनुग्रंपश्याभ्यां, पश्यंती सा तमूचुषी।प्रभाब्या वत्स! देव्यस्मि, क्षेत्रस्यैतस्य रक्षिणी ॥६६५॥ कर्मण्यस्मिंस्त्वयाऽऽरब्धे, पुण्योपस्कारकारणे। त्वत्सत्त्वस्य परीक्षार्थ-मेतच्चके मयाऽखिलम्॥६६॥स्तुत्यस्त्वं वीरकोटीर, यस्येदृक् सत्त्वमुत्कटम् ।नो चेजने घनेऽप्येवं, मृते त्वद्वन्नियेत कः ॥६६७॥ स्वेष्टसिद्धेः स एवेष्टे, यस्य सत्त्वं महत्तमम् । पृथिव्याः को हि नाथः स्या-नि:सीम विक्रम विना?॥६६८॥ सत्त्वमेकमपि प्रौढं, कारुण्यानुगतं किमु । एवमेवाधामोग्रं, किं ग्रीष्मोत्तेजितं पुनः? ॥ ६६९ ॥ प्रीताऽस्मि तव मच्छक्या, गर्ताद् गर्भगृहादिव । शुभंयवो जनाः सर्वे, निर्गताः संतित
विलेपुः.२ प्रारब्धे.३ अपृच्छत्,४ अदृष्टा सती चरतीति अदृष्टचरी. ५पुण्यस्य-धर्मस्य उपस्कारः-आभूषण-संस्कारः, संघातो वा तस्य कारणे.६ शुभान्विताः,
ARREARSARAKAR
Loading... Page Navigation 1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494