Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 434
________________ कुमारपालच. ॥१९२॥ SOSIOS LOSSESSES तमाभावाद, रूपं मम वृथेति सा । अपरां गुलिकां न्यस्य, मुखे चिंतितवत्यदः ॥ १२० ॥ अयं नृपः पितृप्रायः, परे त्वस्य पदातयः । तद् भूयान्मे प्रियश्चंड-प्रद्योतो मालवेश्वरः ॥ १२१ ॥ इदं तचिंतितं कर्तु, तदा शासनदेवता । पुरस्तान्मालवेशस्य, तद्रूपं सुष्ठु तुष्टुवे ॥ १२२ ॥ तदर्थनार्थ सद्योऽपि, प्रद्योतो दूतमादिशत् । साऽपि प्रार्थयमानं तं, समानमिदमब्रवीत् ॥ १२३ ॥ अदृष्टपूर्व तं नैव, वृणोमीत्यानयात्र तम् । तत् तदुक्तं स्वनाथाय, दूतोऽपि प्रत्येपीपदत् ॥ १२४ ॥ नाम्ना गत्याऽपि चारुह्या-निलवेगं मतंगजैम् । प्रद्योतस्तत्र निश्यागा-दहो मदनशासनम् ॥ १२५ ॥ द्वयोरपि मिथःप्रेम्णि, प्रवृत्ते रूपवीक्षणात् । स तामूचे चकोराक्षि!, समेहि नगरं मम ॥१२६ ॥ साऽब्रवीत् प्रतिमा जैनी, जीवातुर्मम विद्यते । तां विनाऽहं न जीवामि, क्षणं यामि च न क्वचित् ॥ १२७ ॥ तदेतस्याः प्रतिच्छंदं, त्वं विधाप्य समानय । यथा तामत्र विन्यस्य, लात्वा चैनामुपैम्यहम् ॥ १२८ ॥ दृष्ट्वा तत्प्रतिमारूपं, स्थित्वा तां रजनी च सः। प्रातर्ययावुजयिनी, सिद्धवन्मालवाधिपः ॥ १२९ ॥ सच्चंदनेन निर्माप्य, प्रतिमां तादृशीं नवाम् । स प्रतिष्ठापयामास, || कपिलेन महर्षिणा ॥ १३० ॥ अलंकृतार्चितां कृत्वा, करे तां प्रतिमां नृपः । आरुह्यानिलवेगेभं, पुनरूतभयं ययौद ॥ १३१॥ व्यश्रोणयच्च दास्यै तां, साऽप्यादाय पुरातनीम् । प्रतिमां तत्र मुक्त्वा च, नवां प्राप नृपांतिकम् ॥ १३२॥ ततस्तत्सहितां कुब्जा-मारोप्य नृपतिर्द्विपे । स्पंदेनातिसमीरेण, प्रपेदे निजमास्पदम् ॥ १३३ ॥ अथ तौ विषयासक्ती, तामार्थ वितरतुः। भायलस्वामिवणिजे, विदिशानगरीजुषे ॥ १३४ ॥ वणिजस्तस्य सदन१ मानेन सहितं, सत्कारपूर्वम्. २ लुङ्, प्रत्यपादयत् , लङ् . ३ मतंगजं-हस्तिनम्, ४ प्रतिबिंबम्. ५ अदात्. ६ स्पंदेन-गमनेन. ॥१९२॥

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494