Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
CACARE
| तस्याविद्राणनिद्रस्य, कंठस्था स्वर्णशृंखला । मार्गे न्यग्रोधशाखाग्रे, विलग्ना पाशवत् क्वचित् ॥३०३ ॥ अधस्तात प्रस्थिते नांगे, तयोलंबितविग्रहः । गलरोधेन सद्योऽपि, रिपुरानञ्च पंचताम् ॥ ३०४॥ तस्यौद्धदेहिक कृत्यं, सर्व वीक्ष्य निजेक्षणैः । देवस्य पुरतो वक्तुं, वयमत्र समैयुम ॥ ३०५॥ हहा किमस्य संजात-मिति शोकाकुलः क्षणम् । तदूचे गुरवे भूप-रतज्ज्ञानाऽतिचमत्कृतः ॥ ३०६ ॥ ततो महोत्सवं कृत्वा, यात्रार्थ प्रस्थितो नृपः । स्वयं भरतचक्रीव, |लोकोत्तरविभूतिभृत् ॥ ३०७ ॥ भूयिष्ठत्वेन संघोऽयं, मा स्म दूयिष्ट वर्त्मनि । इति चके प्रयाणानि, पंचक्रोशानि सोऽन्वहम् ॥ ३०८ ॥ पदाभ्यां निरुपानद्भ्यां , दृष्ट्वा यांतं निजं गुरुम् । नृपोऽपि महतीभक्ति-रनुपानत्पदोऽभवत् ॥ ३०९॥ ततोऽवोचद् गुरुमार्गे, मुनीनां क्रमचंक्रमः । प्राणभृद्रक्षणाद् युक्त-स्तव तु क्लेशकारकः ॥ ३१॥ एवं ते स्यात् प्रमादोऽपि, तेनाऽवाच्यं महत् पुनः । आद्रियस्व तदश्वादि, धत्स्व वोपानही पदे ॥ ३११॥ ततो व्यजिज्ञपत् क्ष्मापो, दौस्थ्ये प्राक् पारवश्यतः । क्रमाभ्यां न कियद भ्रांतं, परं तद् व्यर्थताऽऽस्पदम् ॥३१२॥ अयं तु तीर्थहेतुत्वात् , पादचा
रोऽतिसार्थकः । येनाऽनंता भवधांति-मम प्रभ्रंशतेऽभितः॥३१३॥ एवं युक्या गुरोर्भक्त्वा, वाहनग्राहणाग्रहम् । अभि४ ग्रहीव राजर्षि-स्तथैव प्रास्थिताऽध्वनि ॥ ३१४ ॥ दृष्ट्वा राजगुरुं राज-राजं च पदचारिणम् । तयोभक्तिकृतेऽन्येऽपि,
पद्भ्यां चेलुर्मुनींद्रवत् ॥ ३१५ ॥ चित्रमंगे लगतीभिः, संघप्रस्थानधूलिभिः । यात्रिकाः कलयामासु-नर्मल्यं धौतवस्त्रवत् ॥ ३१६ ॥ प्रतिस्थानं स्फुरञ्चैत्य-परिपाट्यर्चनादिभिः। गृहस्थित इवाऽज्ञास्त, न कोऽपि प्रस्थितिश्रमम् ॥ ३१७ ॥
१ भनष्टनिदस्य. २ हस्तिनि. ३ शरीरः. ४ बहुतमत्वेन. ५ पादचारः. ६ नश्यति.. प्रचलनपरिश्रमम्..
CACHECCESCORCESCESCOCCAS
कु.पा.च.३४
Loading... Page Navigation 1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494