Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 461
________________ श्रीपथं सोऽतिहस्तयन् । नागवल्लीदलव्यग्र-करं चंचदुपानहम् ॥ ५०१॥पण्यस्त्रीस्कंधविन्यस्त-हस्तं मन्मथविभ्रमैः।। दुश्चेष्टमानं विटव-मुनि कंचिन् निरक्षत ॥५०२॥ युग्मम् ॥ दृष्ट्वाऽपि तं तथा भ्रष्टं, नृपः श्रेणिकभूपवत् । कुंभिकुंभस्थलन्यस्त-मस्तकः प्राणमन्मुदा ॥ ५०३ ॥ दध्यौ च न मुनेरस्य, मनागप्यस्ति दूषणम् । निर्माप्यते कुकर्मोच्चैर्यद् धर्मज्ञोऽपि कर्मभिः॥५०४॥ कर्हिचिज्जायते जीवो, बली कर्म च कहिंचित् । अत एवानयो?षः, शाश्वतोऽस्ति महान् मिथः ॥ ५०५॥ तस्यावकीणिनः साधु-प्रष्ठस्येवाऽऽनतं नृपम् । दृष्ट्वा जहास नड्डूल-नृपतिः पृष्ठतः स्थितः॥५०६॥ तं वीक्ष्य वाग्भटामात्यो, लजितो व्यथितोऽपि च । श्रीहेमचंद्राचार्याय, तत्स्वरूपं न्यवेदयत् ॥ ५०७॥ नमस्याहाऽनमस्याह-विचारज्ञापनाकृते । उपादिशत् ततः सूरि-चौलुक्यपृथिवीभुजे ॥५०८॥ ज्ञानदर्शनसंपन्नो, निष्कपायो जितें|द्रियः। सामायिकपरः साधु-वन्दनीयः सतां मतः॥ ५०९ ॥ एते पुनरवंद्याः स्युः, पार्श्वस्थश्चावषण्णकः । तथा कुशीलसंसक्त-यथाछंदाः श्रुतोदिताः॥५१०॥ पार्श्वस्थः सर्वदेशाभ्यां द्विविधस्तत्र सर्वतः । सज्ज्ञानदर्शनादीनां, पार्वे तिष्ठन्निवेदितः॥५११॥ शय्यातराद्युपजीवी, पार्श्वस्थो देशतः स्मृतः। द्विधा स्यादवषण्णोऽपि, सर्वदेशप्रभेदतः॥५१२॥ तत्राद्यो बहुशय्यादि-ग्राही स्थापितभोज्यपि । परस्त्वावश्यकादीनां, न्यूनाधिक्यादिकारकः॥ ५१३ ॥ कुशीलस्त्रि-18 |विधो ज्ञाने, दर्शने चरणेऽपि च । तत्र ज्ञानकुशीलः स्या-दकालेऽध्ययनादिकृत् ॥ ५१४॥ सद्दर्शनकुशील: स्या|च्छंकाद्यासेवनापरः । व्रतकुशीलो निमित्त-भूतिकर्मादियोजकः ॥ ५१५ ॥ पंचाश्रवपरः प्रौढ-गौरवत्रयगर्षितः।। १ हस्तिनाऽतिकामयन्. २ कामचेष्टाभिः. ३ क्षतव्रतस्य. ४ साधुपुंगवस्येव. ५ अनमस्यनमस्याई, प्र. ६ संमतः. ७ द्रव्यप्राप्युपायदर्शनादि. RECAUSAGACASSAARECHARSA

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494